________________
मदान्तः खयमिति । भवानिश्चित्यैवं मनसि जगदाधाय सकलं, स्वमात्मानं तावद्दमयितुमदान्तं व्यवसितः ॥१॥” इति, तथा"तित्थयरो चउनाणी सुरमहिओ सिज्झियत्वयधूयंमि । अणिगृहियबलविरओ सव्वत्थामसु उज्जमइ ॥१॥ इत्यादि" ॥२८॥ साम्प्रतं सुधर्मखामी तीर्थकरगुणानाख्याय खशिष्यानाह-'सोचा य' इत्यादि, श्रुखा च दुर्गतिधारणाद्धर्म-श्रुतचारित्राख्यमईद्भिर्भाषितं सम्यगाख्यातमर्थपदानि-युक्तयो हेतवो वा तैरुपशुद्धम् अवदात सयुक्तिक सद्धेतुकं वा यदिवा अथैः-अभिधेयैः पदैश्च-वाचकैः शब्दैः उप-सामीप्यन शुद्ध-निर्दोष, तमेवम्भूतमर्हद्भिर्भाषितं धर्म श्रद्दधानाः, तथाऽनुतिष्ठन्तो 'जना' लोका 'अनायुषः' अपगतायुःकर्माणः सन्तः सिद्धाः, सायुषश्चेन्द्राद्या देवाधिपा आगमिष्यन्तीति । इतिशब्दः परिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ २९ ॥ इति वीरस्तवाख्यं षष्ठमध्ययनं परिसमाप्तमिति ॥
१ तीर्थकरश्चतुर्ज्ञानी सुरमहितः सेधयितव्ये ध्रुवे, अनिगूहितबलवीर्यः सर्वस्थानोद्यच्छति ॥१॥
dan Education International
For Personal & Private Use Only
vw.jainelibrary.org