________________
सूत्रकृताङ्ग शीलाङ्काचार्ययष्टचियुतं
॥१५२॥
मः, लेशतस्त्विदं - क्रियैव परलोकसाधनायालमित्येवं वदितुं शीलं येषां ते क्रियावादिनः तेषां हि दीक्षात एव क्रियारूपाया मोक्ष इत्येवमभ्युपगमः, अक्रियावादिनस्तु ज्ञानवादिनः, तेषां हि यथावस्थितवस्तुपरिज्ञानादेव मोक्षः, तथां चोक्तम् – “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । शिखी मुण्डी जटी वापि, सिद्ध्यते नात्र संशयः ॥ १ ॥ " तथा विनयादेव मोक्ष इत्येवं गो| शालकमतानुसारिणो विनयेन चरन्तीति वैनयिका व्यवस्थिताः, तथाऽज्ञानमेवैहिकामुष्मिकायालमित्येवमज्ञानिका व्यवस्थिताः, इत्येवंरूपं तेषामभ्युपगमं परिच्छिद्य - स्वतः सम्यगवगम्य सम्यगवबोधेन, तथा स एव वीरवर्धमानखामी सर्वमन्यमपि बौद्धादिकं यं कश्चन वादमपरान् सत्त्वान् यथावस्थिततच्चोपदेशेन 'वेदयित्वा' परिज्ञाप्योपस्थितः सम्यगुत्थानेन संयमे व्यवस्थितो न तु यथा अन्ये, तदुक्तम् - "यथा परेषां कथका विदग्धाः, शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारैर्व कृत्खदोषा| स्त्वयि ते न सन्ति ॥ १ ॥ " इति 'दीर्घरात्रम्' इति यावज्जीवं संयमोत्थानेनोत्थित इति ॥ २७ ॥ अविच – स भगवान् वारयित्वा - प्रतिषिध्य किं तदित्याह - 'स्त्रियम्' इति स्त्रीपरिभोगं मैथुनमित्यर्थः, सह रात्रिभक्तेन वर्तत इति सरात्रिभक्तं, उपलक्षणार्थवादस्यान्यदपि प्राणातिपातनिषेधादिकं द्रष्टव्यं तथा उपधानं तपस्तद्विद्यते यस्यासौ उपधानवान - तपोनिष्टतदेहः, किम| र्थमिति दर्शयति – दुःखयतीति दुःखम् - अष्टप्रकारं कर्म तस्य क्षयः - अपगमस्तदर्थं, किश्च – लोकं विदिता 'आरम् इहलोकाख्यं 'परं' परलोकाख्यं यदिवा – आरं - मनुष्यलोकं पारमिति - नारकादिकं स्वरूपतस्तत्प्राप्तिहेतुतश्च विदित्वा सर्वमेतत् 'प्रभुः ' भगवान् 'सर्ववारं बहुशो निवारितवान् एतदुक्तं भवति - प्राणातिपातनिषेधादिकं स्वतोऽनुष्ठाय परांश्व स्थापितवान्, न हि स्वतोsस्थितः परांश्च स्थापयितुमलमित्यर्थः, तदुक्तम्- " ब्रुवाणोऽपि न्याय्यं स्ववचनविरुद्धं व्यवहरन् परान्नालं कश्चिद्दमयितु
Jain Education national
For Personal & Private Use Only
६ श्रीमहावीरस्तुत्य.
॥१५२॥
www.jainelibrary.org