________________
aeoeceaeeeeeeeeeeceaesed
प्रोच्यते, साम्प्रतमेतदेव भगवति दाान्तिके योज्यते-एषा-अनन्तरोक्तोपमा यस्य स एतदुपमः, कोऽसौ ?-श्राम्यतीति | श्रमणस्तपोनिष्टप्तदेहो ज्ञाता:-क्षत्रियास्तेषां पुत्रः श्रीमन्महावीरवर्द्धमानस्वामीत्यर्थः, स च जात्या सर्वजा तिमद्भ्यो यशसा अशेषयशस्विभ्यो दर्शनज्ञानाभ्यां सकलदर्शनज्ञानिभ्यः शीलेन समस्तशीलवद्भ्यः श्रेष्ठः-प्रधानः, अक्षरघटना तु जात्यादीनां कृतद्वन्द्वानामतिशायने अर्शआदिखादच्प्रत्ययविधानेन विधेयेति ॥ १४ ॥ पुनरपि दृष्टान्तद्वारेणैव भगवतो व्यावर्णनमाह
गिरीवरे वा निसहाऽऽययाणं, रुयए व सेटे वलयायताणं । तओवमे से जगभूइपन्ने, मुणीण मज्झे तमुदाहु पन्ने ॥१५॥ अणुत्तरं धम्ममुईरइत्ता, अणुत्तरं झाणवरं झियाइं।
सुसुक्कसुकं अपगंडसुकं, संखिंदुएगंतवदातसुकं ॥ १६ ॥ ___ यथा 'निषधो' गिरिवरो गिरीणामायतानां मध्ये जम्बूद्वीपे अन्येषु वा द्वीपेषु दैर्येण 'श्रेष्ठः' प्रधानः तथा वलया-10 यतानां मध्ये रुचकः पर्वतोऽन्येभ्यो वलयायतखेन यथा प्रधानः, स हि रुचकद्वीपान्तर्वर्ती मानुषोत्तरपर्वत इव वृत्तायतः | १ मखर्थीयात् अच्प्र० प्र०। २ वृत्तायतोऽसं० प्र० नचैतद्युक्तं ।
in Education memoral
For Personal & Private Use Only
www.jainelibrary.org