________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं
॥१४७॥
सामान्यजन्तूनां दुरारोहो 'गिरिवरः' पर्वतप्रधानः, तथाऽसौ मणिभिरौषधीभित्र देदीप्यमानतया 'भौम इव' भूदेश इव ज्वलित इति ॥ १२ ॥ किञ्च -
मही मज्झमि ठिते णगिंदे, पन्नायते सूरियसुद्धले से ।
एवं सिरीए उ स भूविन्ने, मणोरमे जोयइ अचिमाली ॥ १३ ॥ सुदंसणस्सेव जसो गिरिस्स, पच्चई महतो पवयस्स । तोव समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥
'मह्यां' रत्नप्रभापृथिव्यां मध्यदेशे जम्बूद्वीपस्तस्यापि बहुमध्यदेशे सौमनस विद्युत्प्रभगन्धमादनमाल्यवन्तदंष्ट्रा पर्वतचतुष्टयोपशोभितः समभूभागे दशसहस्रविस्तीर्णः शिरसि सहस्रमेकमधस्तादपि दश सहस्राणि नवतियोजनानि योजनैकादशभागैर्दशभिर| धिकानि विस्तीर्णः चत्वारिंशद्योजनोच्छ्रितचूडोपशोभितो 'नगेन्द्रः' पर्वतप्रधानो मेरुः प्रकर्षेण लोके ज्ञायते सूर्यवत्शुद्धलेश्यःआदित्यसमानतेजाः, 'एवम्' अनन्तरोक्तप्रकारया श्रिया तुशब्दाद्विशिष्टतरया सः - मेरुः 'भूरिवर्णः' अनेकवर्णो अनेकवर्णरत्नोपशोभितखात् मनः - अन्तःकरणं रमयतीति मनोरमा 'अर्चिमालीव' आदित्य इव स्वतेजसा द्योतयति दशापि दिशः प्रकाशयतीति ।। १३ ।। साम्प्रतं मेरुदृष्टान्तोपक्षेपेण दार्शन्तिकं दर्शयति – एतदनन्तरोक्तं 'यशः' कीर्तनं सुदर्शनस्य मेरुगिरेः महापर्वतस्य
Jain Education International
For Personal & Private Use Only
६ श्रीमहावीरस्तुत्य.
॥१४७॥
www.jainelibrary.org