________________
तं च' प्राणिनां खल्पमिति संख्याय-ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु सचित्ताचित्तपरिग्रहप्राण्युपघातस्वजनस्नेहादीनि | बन्धनस्थानानि प्रत्याख्याय 'कर्मणः सकाशात् 'त्रुट्यति' अपगच्छत्यसौ, तुरवधारणे, त्रुट्येदेवेति, यदिवा-'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात्रुट्यति, कर्मणः पृथग्भवतीत्यर्थः ॥५॥ अध्ययनार्थाधिकाराभिहितखात्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनाभिधित्सयाऽऽह| एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्सित्ता, सत्ता कामेहि माणवा ॥६॥ । 'एतान् ' अनन्तरोक्तान् ग्रन्थान् व्युत्क्रम्य ' परित्यज्य खरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः 'सिताः' बद्धाः, एके,
न सर्वे इति संबन्धः । ग्रन्थातिक्रमश्चैतेषां तदुक्तार्थानभ्युपगमात्, अनन्तरग्रन्थेषु चायमर्थोऽभिहितः तद्यथा-जीवा| स्तिले सति ज्ञानावरणीयादिकर्मबन्धनं, तस्य हेतवो मिथ्याखाविरतिप्रमादादयः परिग्रहारम्भादयश्च, तत्रोटनं च सम्यग्द| र्शनाद्युपायेन, मोक्षसद्भावश्चेत्येवमादिका, तदेवमेके 'श्रमणाः' शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः 'एतान्' अर्ह
दुक्तान् ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम्-अनेकप्रकारम् उत्-प्राबल्येन सिता-बद्धाः स्खसमयेष्वभिनिविष्टाः । | तथा च शाक्या एवं प्रतिपादयन्ति, यथा-सुखदुःखेच्छाद्वेषज्ञानाधारभूतो नास्त्यात्मा कश्चित् , किंतु विज्ञानमेवैकं विवर्तत इति, | क्षणिकाः सर्वसंस्कारा इत्यादि, तथा सांख्या एवं व्यवस्थिताः-सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान् , महतोऽह
१ परिव्राजकादयः अथवा समणलिंगत्था माहणा समणोवासगा समणा एव माहणा।
19289030909098990000000000
JainEducationa
For Personal & Private Use Only
Mainelibrary.org