________________
खामी तस्य 'आसीद' अभूदिति, यदेतन्मया पृष्टं तत् 'भिक्षो! सुधर्मस्वामिन् याथातथ्येन खं 'जानीर्षे सम्यगवगच्छसि | 'णम्' इति वाक्यालङ्कारे तदेतत्सर्वं यथाश्रुतं खया श्रुखा च यथा 'निशान्त' मित्यवधारितं यथा दृष्टं तथा सर्व 'ब्रूहि' आचक्ष्वे-12 ति ॥ २॥ स एवं पृष्टः सुधर्मखामी श्रीमन्महावीरवर्धमानस्वामिगुणान् कथयितुमाह
खेयन्नए से कुसलासुपन्ने (०ले महेसी), अणंतनाणी य अणंतदंसी। जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइं च पेहि ॥३॥ उद्धं अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा।
से णिच्चणिञ्चेहि समिक्ख पन्ने, दीवे व धम्म समियं उदाहु ॥ ४ ॥ सः-भगवान् चतुस्त्रिंशदतिशयसमेतः खेदं-संसारान्तर्वर्तिनां प्राणिनां कर्मविपाकजं दुःखं जानातीति खेदज्ञो दुःखापनोद-18 नसमर्थोपदेशदानात् , यदिवा 'क्षेत्रज्ञो' यथावस्थितात्मस्वरूपपरिज्ञानादात्मज्ञ इति, अथवा-क्षेत्रम्-आकाशं तज्जानातीति क्षेत्रज्ञो लोकालोकस्वरूपपरिज्ञातेत्यर्थः, तथा भावकुशान्-अष्टविधकर्मरूपान् लुनाति-छिनत्तीति कुशलः प्राणिनां कर्मोच्छित्तये । निपुण इत्यर्थः, आशु-शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगाद्, न छद्मस्थ इव विचिन्त्य जानातीति भावः, महर्षि
रिति कचित्पाठः, महांश्चासावृषिश्च महर्षिः अत्यन्तोग्रतपश्चरणानुष्ठायिखादतुलपरीषहोपसर्गसहनाच्चेति, तथा अनन्तम्-अविना& श्यनन्तपदार्थपरिच्छेदकं वा ज्ञान-विशेषग्राहकं यस्यासावनन्तज्ञानी, एवं सामान्यार्थपरिच्छेदकलेनानन्तदर्शी, तदेवम्भूतस्य
dan Education International
For Personal & Private Use Only
www.jainelibrary.org