________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृत्तियुतं
॥१३८॥
'सदा' सर्वकालं 'कृत्स्नं' सम्पूर्ण पुनरपरं 'धर्मस्थानं' उष्णस्थानं दृदैर्निधत्तनिकाचितावस्थैः कर्मभिः 'उपनीतं' ढौकितमतीव दुःखरूपो धर्मः स्वभावो यस्मिंस्तदतिदुःखधर्मं तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च बद्धा तत्र प्रक्षिपन्ति, तथा तदवस्थमेव शत्रुमिव दण्डैः 'समारभन्ते' ताडयन्ति इति ।। १३ ।। किञ्च - 'बालस्य' वराकस्य नारकस्य व्यथयतीति व्यथो - लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति' मोटयन्ति, तथा शिरोऽप्ययोमयेन घनेन 'भिन्दन्ति' चूर्णयन्ति, अपिश|ब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुघणघांतवर्णयन्ति 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्श्वाभ्यां क्रक| चादिना 'अवतष्टाः' तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति ॥ १४ ॥ किञ्च --
Jain Education International
अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्थिवहं वर्हति ।
एगं दुरूहितु दुवे ततो वा, आरुस्स विज्झति ककाणओ से ॥ १५ ॥
.
बाला बला भूमिमणुकमंता, पविज्जलं कंटइलं महंतं । विवद्धतहिं विवण्णचित्ते, समीरिया कोट्टबलिं करिंति ॥ १६ ॥
१ ०पातै० प्र० ।
For Personal & Private Use Only
५ नरकविभक्त्यध्य. उद्देशः २
॥१३८॥
www.jainelibrary.org