SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ रौद्रकर्मण्यपरनारकहननादिके 'अभियुज्य' व्यापार्य यदिवा-जन्मान्तरकृतं 'रौद्रं सत्त्वोपघातकार्यम् 'अभियुज्य' मा1 रयिखा असाधूनि-अशोभनानि जन्मान्तरकृतानि कर्माणि अनुष्ठानानि येषां ते तथा तान् 'इषुचोदितान् शराभिघातप्रेरितान् | हस्तिवाहं वाहयन्ति नरकपालाः, यथा हस्ती वाह्यते समारुह्य एवं तमपि वाहयन्ति, यदिवा-यथा हस्ती महान्तं भारं वहत्येवं तमपि नारकं वाहयन्ति, उपलक्षणार्थवादस्योष्ट्रवाहं वाहयन्तीत्याद्यप्यायोज्यं, कथं वाहयन्तीति दर्शयति-तस्य नारकस्योपर्येक द्वौ त्रीन् वा 'समारुह्य' समारोप्य ततस्तं वाहयन्ति, अतिभारारोपणेनावहन्तम् 'आरुष्य' क्रोधं कृखा प्रतोदादिना 'विध्य|न्ति' तुदन्ति, 'से' तस्य नारकस्य 'ककाणओत्ति मर्माणि विध्यन्तीत्यर्थः ॥ १५॥ अपिच-बाला इव बालाः परतत्राः, |पिच्छिलां रुधिरादिना तथा कण्टकाकुलां भूमिमनुक्रामन्तो मन्दगतयो बलात्प्रेर्यन्ते, तथा अन्यान् 'विषण्णचित्तान्' मूर्छितांस्तर्पकाकारान् 'विविधम्' अनेकधा बद्धा ते नरकपालाः 'समीरिताः' पापेन कर्मणा चोदितास्तानारकान् 'कुदृयित्वा' खण्डशः कृता 'बलिं करितित्ति नगरबलिवदितश्चेतश्च क्षिपन्तीत्यर्थः, यदिवा कोट्टबलिं कुर्वन्तीति ॥ १६ ॥ किश्च वेतालिए नाम महाभितावे, एगायते पव्वयमंतलिक्खे । हम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुहुत्तगाणं ॥ १७ ॥ संबाहिया दुक्कडिणो थणंति, अहो य राओ परितप्पमाणा। 1 मर्मणि प्र० । २ बलिं कुर्वति इतश्वेतश्च क्षिपंतीत्यर्थः, यदिवा कोहबलि कुर्वतीति, कुर्वति नगरवलिं-प्र.। keeeeeeeeeeeeeeeeees Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy