SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ रहंसि जुत्तं सरयंति बालं, आरुस्स विझंति तुदेण पिटे ॥ ३॥ अयंव तत्तं जलियं सजोइ, तऊवमं भूमिमणुकमंता। ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ 'से तस्य नारकस्य तिसृषु नरकपृथिवीषु परमाधार्मिका अपरनारकाच अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् 'प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखें' विकाशं कृखा 'स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ-समन्तादहन्ति । तथा 'रहसि' एकाकिनं 'युक्तम् उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं 'बालम्' अझं नारकं सारयन्ति, | तद्यथा-तप्तत्रपुपानावसरे मद्यपस्तमासीस्तथा स्वमांसभक्षणावसरे पिशिताशी खमासीरित्येवं दुःखानुरूपमनुष्ठानं सारयन्तः कदर्थयन्ति, तथा-निष्कारणमेव 'आरूष्य' कोपं कृखा प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति ॥३॥ तथातप्तायोगोलकसन्निभां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमा वा भूमिम् 'अनुक्रामन्तः' तां ज्वलितां भूमिं गच्छन्तस्ते दह्यमानाः 'करुणं' दीनं-विस्वरं 'स्तनंति' रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीवर्दा इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति ॥ ४ ॥ अन्यच्च बाला बला भूमिमणुकमंता, पविजलं लोहपहं च तत्तं । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy