________________
त्रादिभिः कान्तैश्च विषयैर्विप्रमुक्ता एकाकिनस्ते 'दुरभिगन्धे' कुथितकलेवरातिशायिनि नरके 'कृत्स्ले संपूर्णेऽत्यन्ताशुभस्पर्श ॥ एकान्तोद्वेजनीयेऽशुभकर्मोपगताः 'कुणिमे त्ति मांसपेशीरुधिरपूयात्रफिप्फिसकश्मलाकुले सर्वामध्याधमे बीभत्सदर्शने हाहारवा9 क्रन्देन कष्टं मा तावदित्यादिशब्दबधिरितदिगन्तराले परमाधमे नरकावासे आ-समन्तादुत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि याव-19
द्यस्यां वा नरकपृथिव्यां यावदायुस्तावद् 'वसन्ति' तिष्ठन्ति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २७॥ इति नरकविभक्तेः प्रथमोद्देशकः समाप्तः ॥
अथ पञ्चमाध्ययनस्य द्वितीयोद्देशकः प्रारभ्यते ॥
Beestseeeeeeeeeeeeesecsh
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते-अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके यैः कर्मभिर्जन्तवो नरकेधूत्प-8 द्यन्ते यादृगवस्थाश्च भवन्त्येतत्प्रतिपादितम् , इहापि विशिष्टतरं तदेव प्रतिपाद्यते, इत्यनेन संबन्धेनायातस्यास्योद्देशकस्य सूत्रानु|गमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहेणं । बाला जहा दुकडकम्मकारी, वेदंति कम्माई पुरेकडाइं ॥१॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org