________________
सूत्रकृ. ३
दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तम्उपयोगो ज्ञानं तद्विद्यते यस्य तच्चित्तवत् - द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत् - कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह्य कृशमपि स्तोकमपि तृणतुषादिकमपीत्यर्थः, यदिवा कसनं कस:- परिग्रहग्रहणबुद्ध्या जीवस्य गमनपरिणाम इतियावत्, तदेवं स्वतः परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृण्हतो वाऽन्याननुज्ञाय दुःखयतीति दुःखम् – अष्टप्रकारं कर्म तत्फलं वा असातोदयादिरूपं तस्मान्न मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम् - " ममाहमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नयः । यशः सुखपिपासितैरयमसावनथत्तरैः परैरपसदः कुतोऽपि कथमप्यपाकृष्यते ॥ १ ॥ " तथा च " द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिर्व्याक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥ २ ॥ " तथा च परिग्रहेध्वप्राप्तनष्टेषु काङ्क्षाशोकौ प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाद्बन्धनान्न मुच्यत इति ॥ २ ॥ परिग्रहवतश्चावश्यंभाव्यारम्भस्तस्मिंश्च प्राणातिपात इति दर्शयितुमाह
सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वडइ अप्पणो ॥ ३॥ जस कुले समुपपन्ने, जेहिं वा संवसे नरे । ममाइ लुप्पई बाले, अण्णे अण्णेहि मुच्छिए ॥४॥ यदिवा - प्रकारान्तरेण बन्धनमेवाह - 'सयं तीत्यादि', स परिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च
For Personal & Private Use Only
jainelibrary.org