SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुतं १समयाध्ययने बन्धप्रश्नोत्तरे ॥१२॥ बुज्झिज्जत्ति तिउद्दिज्जा, बंधणं परिजाणिया। किमाह बंधणं वीरो, किंवा जाणं तिउद्दई ? ॥१॥ | अस्य संहितादिक्रमेण व्याख्या-बुध्येतेत्यादि, सूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचाराङ्गेन सहायं संबन्धः, तद्यथाआचाराने भिहितम्-'जीवो छक्कायपरूवणा य तेसिं वहेण बंधोत्ति' इत्यादि तत्सर्व बुध्येतेत्यादि, यदिवेह केषाश्चिद्वादिनां ज्ञानादेव मुक्त्यवाप्तिरन्येषां क्रियामात्रात् , जैनानां तूभाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादौ बुध्यतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्येनेन च क्रियोक्ता, तत्रायमर्थो-'बुध्येत' अवगच्छेत् बोधं विदध्यादित्युपदेशः, किं पुनस्तबुध्येतात आह-'बन्धन' बध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतया व्यवस्थाप्यत इति बन्धनं-ज्ञानावर| णाद्यष्टप्रकारं कर्म तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, न च बोधमात्रादभिलपितार्थावाप्तिर्भवतीत्यतः क्रियां दर्शयति-तच्च बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया'त्रोटयेद्' अपनयेदात्मनः पृथक्कुर्यात्परित्यजेद्वा, एवं चाभिहिते जम्बूस्वाम्यादिको विनेयो बन्धादिवरूपं विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीर' तीर्थकृत् ?, किंवा 'जानन्' अवगच्छंस्तद्वन्धनं त्रोटयति ततो वा त्रुट्यति ?, इति श्लोकार्थः ॥१॥ बन्धनप्रश्नखरूपप्रश्ननिर्वचनाहि-. चित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्चइ ॥२॥ इह बन्धनं कर्म तद्धेतवो वाभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः छब्विहं विद्धि लक्खणं ॥ १॥” इति व्याख्यालक्षणे तस्या एवादौ प्रतिपादनात् ।। १ एकान्तपरोक्षे चू० २ कर्मणो बन्धनत्वपक्षे ॥ Seeeeeeeeeeeeeeeeeeereceio ॥१२॥ Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy