SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या-गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा स्वप्नान्तिक-स्वप्नप्रत्ययं कर्म नोपचीयते, यथा वनभोजने तृप्त्यभाव इति । | तृतीयोद्देशके खयमर्थाधिकारः, तद्यथा-आधाकर्मगतविचारस्तद्भोजिनां च दोषोपदर्शन मिति, तथा कृतवादी च भण्यते, तद्य था-ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीखोत्थितास्तथा भण्यन्त इति द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्वय, तद्यथा-अविरतेषु-गृहस्थेषु यानि कृत्यानि-अनुष्ठानानि स्थितानि तैरसंयमप्रधानैः कर्तव्यैः 'परप्रवादी' परतीर्थिक उपमीयत इति । इदानीमनुगमः, स च द्वेधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमत्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्च । तत्र निक्षेपनियुक्त्यनुगमोऽनुगतः, ओघनामनिष्पन्ननिक्षेपयोरन्तर्गतखात्, तथा च वक्ष्यमाणस्य सूत्रस्य निक्षेप्यमानखात् । उपोद्घातनिर्युक्त्यनुगमस्तु षड्विंशतिद्वारप्रतिपादकाद्गाथाद्वयादवसेयः, तच्चेदम्-' उद्देसे निद्देसे य' इत्यादि । सूत्रस्पर्शिकनियुक्त्यनुगमस्तु सूत्रे सति संभवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्त एव, तत्रास्खलितादिगुणोपेतं मूत्रमुच्चारणीयं, तच्चेदम् 9700808086802820000000000028 १-पस्थिताः प्र.२ उद्देसे निदेसे य निग्गमे खित्त काल पुरिसे य । कारण पचय लक्खण नए समोयारणाणुमए ॥१॥ किं कइविहं कस्स कहिं केसु कहं किचिरं हवइ कालं । कइसंतरमविर हि भवागरिस फासण निरुत्ती ॥२॥ उद्देशो निर्देशश्च निर्गमः क्षेत्र कालः पुरुषश्च । कारण प्रत्ययो लक्षणं नयः समवतारोऽनुमतम् ॥१॥ किं कतिविधं कस्य व केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं भवा आकर्षाः स्पर्शना निरुक्तिः ॥२॥ ३ प्रसूतिनिर्गमनमित्यर्थः,-मेघच्छन्ने यथा चन्द्रो, न राजति नभस्तले । उपोद्घातं विना शास्त्रं, तथा न भ्राजते विधौ ॥१॥ ४ संहिता लक्षिता ‘संहिया य पयं चेव पयस्थो पयविग्गहो । चालणा य पसिद्धी य SOCae Jan Educa For Personal & Private Use Only jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy