________________
चतसृष्वपि दिक्षु चतुरोऽनीन् 'समारभ्य' प्रज्वाल्य 'यत्र' यस्मिन्नरकावासे 'क्रूरकर्माणो' नरकपाला आभिमुख्येनात्यर्थ तापयन्ति - भटित्रवत्पचन्ति 'बालम्' अज्ञं नारकं पूर्वकृतदुश्चरितं ते तु नारकजीवा एवम् 'अभितप्यमानाः कदर्थ्यमानाः स्वकर्मनिगडितास्तत्रैव प्रभूतं कालं महादुःखाकुले नरके तिष्ठन्ति दृष्टान्तमाह-यथा जीवन्तो 'मत्स्या' मीना 'उपज्योतिः ' अग्नेः समीपे प्राप्ताः परवशत्वादन्यत्र गन्तुमसमर्थास्तत्रैव तिष्ठन्ति, एवं नारका अपि, मत्स्यानां तापासहिष्णुवादनावत्यन्तं दुःखमुत्पद्यत इत्यतस्तग्रहणमिति ॥ १३ ॥ किञ्चान्यत्-सम् - एकीभावेन तक्षणं सन्तक्षणं, नामशब्दः सम्भावनायां यदेतत्संतक्षणं तत्सर्वेषां प्राणिनां 'महाभितापं' महादुःखोत्पादकमित्येवं सम्भाव्यते, यद्येवं ततः किमित्याह - ते 'नारका' नरकपाला 'यत्र' नरकावासे स्वभवनादागताः 'असाधुकर्माणः क्रूरकर्माणो निरनुकम्पाः 'कुठारहस्ताः' परशुपाणयस्तान्नारकानत्राणान् हस्तैः पादैश्व 'बद्धा' संयम्य 'फलकमिव' काष्ठशकलमिव 'तक्ष्णुवन्ति' तनूकुर्वन्ति छिन्दन्तीत्यर्थः ॥ १४ ॥ अपि च
Jain Education International
रुहिरे पुणो वच्चसमुस्सिअंगे, भिन्नुत्तमंगे वरिवत्तयंता । पयंति णं णेरइए फुरंते, सजीवमच्छे व अयोकवले ॥ १५ ॥ नो चैव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए । तमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ॥ १६ ॥
For Personal & Private Use Only
www.jainelibrary.org