SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ तांश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेनाभितप्तानायसकीलाकुलां नावमुपगच्छतः पूर्वारूढा 'असाधुकर्माण' 8 परमाधार्मिकाः 'कीलेषु कण्ठेषु विध्यन्ति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां 'स्मृत्या विहीणा' अपगतकर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तानष्टांस्त्रिशलिकाभिः शुलाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति ॥९॥ अपिच केषांचिन्नारकाणां परमाधार्मिका महतीं शिलां गले बद्धा महत्युदके 'बोलंति'त्ति निमजयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुरामौ च 'लोल यन्ति' अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे खकर्मपाशावपाशितान्नारकान् सुण्ठ18|| के प्रोतकमांसपेशीवत् 'पचन्ति' भर्जयन्तीति ॥ १० ॥ तथा आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उडे अहेअं तिरियं दिसासु, समाहिओ जत्थागणी झियाई ॥ ११ ॥ जंसी गुहाए जलणेऽतिउद्दे, अविजाणओ डज्झइ लुत्तपण्णो। सया य कलुणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्म ॥१२॥ न विद्यते सूर्यो यस्मिन् सः असूर्यो-नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽसूर्य इति व्यपदिश्यते, १ कर्त्तव्याकर्तव्य० प्र० । २ इयत्त० प्र० । ३ प्रोतमां० प्र० । ४ असूरियं प्र० । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy