________________
seA
सूत्रकृताङ्गं शीलाङ्काचा-यवत्तियुतं
॥१२९॥
राग्नेरभावात्तदुपमा भूमिमित्युक्तम् , एतदपि दिग्दर्शनार्थमुक्तम् , अन्यथा नारकतापस्सेहत्याग्निना नोपमा घटते, ते च नारका 1४/५ नरकवि४|| महानगरदाहाधिकेन तापेन दह्यमाना 'अरहखरा' प्रकटखरा महाशब्दाः सन्तः 'तत्र' तसिन्नरकावासे चिरं-प्रभूतं कालं18 भक्त्यध्यः स्थितिः-अवस्थानं येषां ते तथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति॥७॥ अपिच
उद्देशः १ सुधर्मखामी जम्बूवामिनं प्रतीदमाह-यथा भगवतेदमाख्यातं यदि 'ते' खया श्रुता-श्रवणपथमुपागता 'वैतरणी' नाम क्षारोष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्पादिका, तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णानि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सा तथा, ते च नारकास्तप्ताङ्गारसन्निभां भूमि विहायोदकपिपासवोभितप्ताः | सन्तस्तापापनोदायाभिषिषिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः। शक्तिभिश्च हन्यमानास्तामेव भीमां वैतरणी तरन्ति, तृतीयार्थे सप्तमी ॥ ८॥ किश्च
कीलेहिं विझंति असाहुकम्मा, नावं उविंते सइविप्पहणा । अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विद्धृण अहेकरंति ॥९॥
॥१२९॥ केसिं च बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि। कलंबुयावालय मुम्मुरे य, लोलंति पञ्चंति अ तत्थ अन्ने ॥ १०॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org