________________
वान् कोऽसौ ?-'काश्यपो वीरो वर्धमानखामी आशुप्रज्ञः सर्वत्र सदोपयोगात् , स चैवं मया पृष्टो भगवानिदमाह-यथा यदे६ तद्भवतां पृष्टस्तदहं 'प्रवेदयिष्यामि' कथयिष्याम्यग्रतो दत्तावधानः शृण्विति, तदेवाह-'दुःखम्' इति नरकं दुःखहेतुखात् | असदनुष्ठानं यदिवा-नरकावास एव दुःखयतीति दुःखं अथवा असातावेदनीयोदयात् तीव्रपीडात्मकं दुःखमिति, एतच्चार्थतः| परमार्थतो विचार्यमाणं 'दुर्ग' गहनं विषमं दुर्विज्ञेयं असर्वज्ञेन, तत्प्रतिपादकप्रमाणाभावादित्यभिप्रायः, यदिवा-'दुहमट्ठदु
गं'ति दुःखमेवार्थो यसिन् दुःखनिमित्तो वा दुःखप्रयोजनो वा स दुःखार्थो नरकः, स च दुर्गो-विषमो दुरुत्तरखात् तं प्रतिपाद| यिष्ये, पुनरपि तमेव विशिनष्टि-आ-समन्ताद्दीनमादीनं तद्विद्यते यस्मिन्स आदीनिक:-अत्यन्तदीनसत्त्वाश्रयस्तथा दुष्टं कृतं | दुष्कृतम् असदनुष्ठानं पापं वा तत्फलं वा असातावेदनीयोदयरूपं तद्विद्यते यस्मिन्स दुष्कृतिकस्तं, 'पुरस्तादू' अग्रतः प्रतिपाद-15 यिष्ये, पाठान्तरं वा 'दुक्कडिणं ति दुष्कृतं विद्यते येषां ते दुष्कृतिनो नारकास्तेषां सम्बन्धि चरितं 'पुरस्तात् पूर्वसिन् जन्मनि नरकगतिगमनयोग्यं यत्कृतं तत्प्रतिपादयिष्य इति ॥२॥ यथाप्रतिज्ञातमाह
जे केइ बाला इह जीवियट्ठी, पावाई कम्माइं करंति रुद्दा । ते घोररूवे तमिसंधयारे, तिवाभितावे नरए पडंति ॥३॥
तिवं तसे पाणिणो थोवरे य, जे हिंसती आयसुहं पडुच्चा । १ असर्वज्ञस्य नरकज्ञानकारकतादृशज्ञानाभावात् ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org