SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचाीयवृचियुतं ५नरकविभक्त्यध्य. उद्देशः१ ॥१२६॥ पुच्छिस्सऽहं केवलियं महेसिं, कहं भितावा णरगा पुरत्था ? । अजाणओ मे मुणि ब्रूहि जाणं, कहिं नु बाला नरयं उविंति ? ॥१॥ एवं मए पुटे महाणुभावे, इणमोऽब्बवी कासवे आसुपन्ने । पवेदइस्सं दुहमट्ठदुग्गं, आदीणियं दुक्कडियं पुरत्था ॥२॥ . जम्बूस्खामिना सुधर्मस्वामी पृष्टः, तद्यथा-भगवन् ! किंभूता नरकाः ? कैर्वा कर्मभिरसुमतां तेषूत्पादः कीदृश्यो वा तत्रत्या वेदना ? इत्येवं पृष्टः सुधर्मखाम्याह-यदेतद्भवताऽहं पृष्टस्तदेतद् 'केवलिनम्' अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनं | | 'महर्षिम् उग्रतपश्चरणकारिणमनुकूलप्रतिकूलोपसर्गसहिष्णुं श्रीमन्महावीरवर्धमानस्वामिनं पुरस्तात्पूर्व पृष्टवानहममि, यथा | 'कथं किम्भूता अभितापान्विता 'नरका नरकावासा भवन्तीत्येतदजानतो 'मे' मम हे मुने 'जानन्' सर्वमेव केवलज्ञानेनावग|च्छन् 'ब्रूहि कथय, 'कथं नु' केन प्रकारेण किमनुष्ठायिनो नुरिति वितर्के 'बाला' अज्ञा हिताहितप्राप्तिपरिहारविवेकरहितास्तेषु नरकेधूप-सामीप्येन तद्योग्यकर्मोपादानतया 'यान्ति' गच्छन्ति किम्भूताश्च तत्र गतानां वेदनाः प्रादुष्ष्यन्तीत्येतचाई 'पृष्टवानिति ॥१॥ तथा 'एवम् अनन्तरोक्तं मया विनेयेनोपगम्य पृष्टो महाश्चतुस्त्रिंशदतिशयरूपोऽनुभावो-माहात्म्यं यस्य स तथा, प्रश्नोत्तरकालं च 'इदं वक्ष्यमाणं, मो इति वाक्यालङ्कारे, केवलालोकेन परिज्ञाय मत्प्रश्ननिर्वचनम् 'अब्रवीत्' उक्त१.नुभागो. प्र.। ॥१२६॥ dain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy