________________
eeeeeeeeeeeeeeeeees
तम्-"छिनपादभुजस्कन्धाश्छिन्नकर्णीष्ठनासिकाः । भिन्नतालशिरोमेण्दा, भिन्नाक्षिहृदयोदराः ॥ १ ॥" किश्चान्यतकुम्भिनामानो नरकपाला नारकान्नरकेषु व्यवस्थितान् निघ्नन्ति, तथा पाचयन्ति, केति दर्शयति–'कुम्भीषु' उष्ट्रिकाकृतिषु । तथा 'पचनेषु' कडिल्लकाकृतिषु तथा 'लौहीपु' आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषुकोष्ठिकाकृतिषु एवमादिभाजनविशेषेषु पाचयन्ति । तथा-वालुकाख्याः परमाधार्मिका नारकानत्राणांस्तप्तवालुकाभृतभाजने चणकानिव तडतडित्ति स्फुटतः 'भजंति' भृजन्ति-पचन्ति, क? इत्याह-कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम्उपरितलं तसिन् पातयिता अम्बरतले च लोलयन्तीति । किश्चान्यत्-वैतरणीनामानो नरकपाला वैतरणी नदी विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यां च क्षारोष्णजलायामतीव बीभत्सदर्शनायां नारकान् प्रवाहयन्तीति । तथा खरखराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति, तद्यथा-क्रकचपातैर्मध्यं मध्येन स्तम्भमिव सूत्रपातानुसारेण कल्पयन्ति-पाटयन्ति, तथा परशुभिश्च तानेव नारकान् 'परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवापनयनेन तनून कारयन्ति, तथा 'शामलीं वज्रमयभीषणकण्टकाकुलां खरखरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्षयन्तीति । अपिच-महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायै रकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः' सामस्त्येन 'तत्रैव' पीडोत्पादनस्थाने 'निरुम्भन्ति' प्रतिबन्नन्ति 'पशून्' बस्तादिकान् यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिबनन्त्येवं तत्र नरकावासे नारकानिति ॥ गतो नामनिष्पन्न निक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
20SAPOS999999
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org