SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचाययचियुतं ॥१२५॥ हृदयं पाटयन्ति तथा तद्गतं 'कालेज्ज' ति हृदयान्तर्वर्ति मांसखण्डं तथा 'फुप्फुसे त्ति उदरान्तर्वतींन्यत्रविशेषरूपाणि तथा 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीव्रां वेदनामुत्पादयन्तीति । अपिच - तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथा| उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहूरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभिः 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । अपिच - तथा कालाख्या नरकपालासुरा | 'मीरासु' दीर्घचुलीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति । अपिच - महाकालाख्या नरकपालाः पापकर्मनिरता | नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा - 'काकिणीमांसकानि' श्लक्ष्णमांसखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छ्राणि'त्ति पृष्ठीवर्धास्तांश्छिन्दन्ति, तथा ये प्राक् मांसाशिनो नारका आसन् तान् स्वमांसानि खादयन्तीति । अपि चअसिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति तद्यथा - हस्तपादोरुबा हुशिरः पार्श्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुः खोत्पादनविशेषणार्थ इति । तथा - असिप्रधानाः पत्रधनुर्नामानो नरकपाला असिपत्रवनं बीभत्सं कृत्वा तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा केर्णोष्ठनासिकाकरचरणदशनस्तनस्फिंगूरुबाहूनां छेदनभेदनशातनादीनि विकुर्वितवाताहत चलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदु१ किंच प्र० । २ कण्ठोष्ठ० प्र० । ३ पूतौ स्फिजौ कटि प्रोथौ हैमः । Jain Education International For Personal & Private Use Only ५ नरकविभक्त्यध्य. उद्देशः १ ॥१२५॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy