SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ भीए य पलायंते समंततो तत्थ ते णिरुंभंति । पसुणो जहा पसुवहे महघोसा तत्थ रइए ॥ ८४ ॥ तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गखा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो | 'धाडेति'त्ति प्रेरयन्ति–स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति'त्ति खेच्छयेतश्चेतश्चानाथं भ्रमयन्ति, तथा अम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्गरादिना प्रन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति कृकाटिकायां गृहीखा भूमौ पातयन्ति | अधोमुखान् , तथोत्क्षिप्य अम्बरतले मुश्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु नारकान् कदर्थयन्ति । किञ्चान्यत्उप-सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहता एव खगादिना हता उपहतहतास्तानारकान् 'तस्यां नरकपृथिव्यां 'निःसंज्ञकान्' नष्टसंज्ञान मूञ्छितान्सतः कर्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा 'द्विदलचटुलकच्छिन्नानिति मध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र-नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा-'अपुण्यवता' तीव्रासातोदिये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतच्चैतच्च प्रवर्तयन्ति, तद्यथा-'शातनम्' अङ्गोपाङ्गानां छेदनं, तथा | 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं शूलादिना तोदनं व्यधनं, (ग्रन्थानम् ३७५०) सूच्यादिना नासिकादौ वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं बध्नन्ति, तथा ताग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनवन्धनादिकं बहुविधं 'प्रवर्तयन्ति' व्यापारयन्तीति, अपिच-तथा-सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा || अपुण्यभाजा नारकाणां यत्कुर्वन्ति तद्दर्शयति, तद्यथा-अत्रगतानि यानि फिप्फिसानि-अत्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा कूष्माण्डवदायतं छित्वा यत्तिर्यक् छिद्यते वि० प्र०।२ व्यधनं तथा । व्यथनं तथा। taeeeeeeeeeeeeee easooras20000000000000000002020 Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy