________________
त्तियुतं
सूत्रकृताङ्गं नाम क्रियते, तद्यथा-खादयोऽष्टौ विभक्तयस्तिबादयश्च, स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद्धातोर्वा परेण स्थाप्यन्ते नरकविशीलाङ्का- पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिजीवाजीवभेदाद् द्विधा, तत्रापि-जीवविभक्तिः सांसारिकेतरभेदाद्विधा, तत्राप्यसांसारिक-8॥ भक्त्यध्य. चाीयवृ- जीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पञ्चदशधा, कालतस्तु प्रथमसमयसिद्धादिभेदादनेकधा, ISM | उद्देशः १
18 सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्रिधा, तत्रेन्द्रियविभक्तिः-एकेन्द्रियविकलेन्द्रियपश्चेन्द्रियभेदात्पश्चधा, जातिवि॥१२२॥
9 भक्तिः पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् पोढा, भवविभक्ति रकतिर्यमनुष्यामरभेदाचतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरू॥ पिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रव्यविभक्तिश्चतुर्धा, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशाः परमाणुपुद्गलाच, अरूपिद्रव्य
विभक्तिर्दशधा, तद्यथा-धर्मास्तिकायो धर्मास्तिकायस्स देशो धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिश्चतुर्धा, तद्यथा-स्थानं दिशं द्रव्यं स्वामिलं चाश्रित्य, तत्र स्थानाश्रयणादूर्वाधस्तियेग्विभागव्यवस्थितो लोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रत्नप्रभायाः | सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकप्रविष्टपुष्पावकीर्णकवृत्तव्यस्रचतुरस्रादिनरकस्वरूपनिरूपणं, तियेग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादिद्विगुणद्विगुणवृद्ध्या द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणं, ऊर्ध्वलोकविभक्तिः सौधर्माचा उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकाव-IST लिकाप्रविष्टपुष्पावकीर्णकवृत्तव्यस्रचतुरस्रादिविमानखरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वस्यां दिशि व्यवस्थितं क्षेत्रमेवमपरा
१इति प्र.
रा
Jain Education International
For Personal & Private Use Only
___www.jainelibrary.org