________________
तत्र नरकशब्दस्य नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यनरक आगमतो नोआगमतच, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तः 'इहैव' मनुष्यभवे तिर्यग्भवे वा ये केचनाशुभकIS मकारिखादशुभाः सत्त्वाः कालकसौकरिकादय इति, यदिवा यानि कानिचिदशुभानि स्थानानि चारकादीनि याच नरकन
तिरूपा वेदनास्ताः सर्वा द्रव्यनरका इत्यभिधीयन्ते, यदिवा कर्मद्रव्यनोकर्मद्रव्यभेदाद् द्रव्यनरको द्वेधा, तत्र नरकवेद्यानि | यानि बद्धानि कर्माणि तानि चैकमविकस्य बद्धायुष्कस्याभिमुखनामगोत्रस्य चाश्रित्य द्रव्यनरको भवति, नोकर्मद्रव्यनरकस्विहैव येऽशुभा रूपरसगन्धवर्णशब्दस्पर्शा इति, क्षेत्रनरकस्तु 'नरकावकाशः' कालमहाकालरौरवमहारौरवाप्रतिष्ठानाभिधानादिनरकाणां चतुरशीतिलक्षसंख्यानां विशिष्टो भूभागः, कालनरकस्तु यत्र यावती स्थितिरिति, भावनरकस्तु ये जीवा नरकायुष्कमनुभवन्ति | तथा नरकप्रायोग्यः कर्मोदय इति, एतदुक्तं भवति-नरकान्तर्वर्तिनो जीवास्तथा नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयाश्चैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेवं 'श्रुखा' अवगम्य तीव्रमसह्यं 'नरकदुःखं' क्रकचपाटनकुम्भीपाकादिकं | परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च 'तपश्चरणे' संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गागमनैकहेतावा-18 त्महितमिच्छता 'प्रयतितव्यं' परित्यक्तान्यकर्तव्येन यत्नो विधेय इति ॥ साम्प्रतं विभक्तिपदनिक्षेपार्थमाह___णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ विभत्तीए णिक्खेवो छव्विहो होइ ॥६६॥ विभक्तेर्नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् पोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेव्यस्य विभक्तिरिति १ नरकास्तु प्र. । २ रूपं मूर्तिः (आकारः) । लावण्यं वा ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org