SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं नरकविभक्त्यध्या उद्देशः१ ॥अथ पञ्चमं नरकविभक्त्यध्ययनं प्रारभ्यते ॥ शीलाङ्काचायीयवृत्तियुतं उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाये अध्ययने खसमयपरसमयप्ररूपणाभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येतद्वितीयेऽध्ययनेऽभिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृ॥१२॥ | तीयेऽध्ययने प्रतिपादितं, तथा सम्बुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतच्चतुर्थेऽध्ययने प्रतिपादितं, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातो भवति तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनाया| तस्यास्याध्ययनस्य चखार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार | उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारी नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा-'उवसग्गभीरुणो थीवसस्स नरएसु होज उववाओं इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतखादिति । साम्प्रतं निक्षेपः, स च त्रिविधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्ति 1 1 रिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थ नियुक्तिकृदाह णिरए छकं दव्वं णिरया उ इहेव जे भवे असुभा। खेत्तं णिरओगासो कालो णिरएस चेव ठिती ॥ ६४॥ भावे उणिरयजीवा कम्मुदओ चेव णिरयपाओगो। सोऊण णिरयदुक्खं तवचरणे होइ जइयव्वं ॥६५॥ ॥१२१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy