SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ नव भेदाः, ततश्चाष्टादशभेदभिन्नमपि ब्रह्म विभृयात् , यथा च स्त्रीस्पर्शपरीषहः सोढव्य एवं सवोनपि शीतोष्णदंशमशकतृणादि| स्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ॥ २१॥ क एवमाहेति दर्शयति-'इति' एवं यत्पूर्वमुक्तं तत्सर्व स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान् , यत एवमतो धूतम्-अपनीतं रजः-स्त्रीसम्पर्कादिकृतं कर्म | येन स धूतरजाः तथा धृतो मोहो रागद्वेषरूपो येन स तथा । पाठान्तरं वा धृतः-अपनीतो रागमार्गो-रागपन्था यसिन् स्त्रीसं स्तवादिपरिहारे तत्तथा तत्सर्व भगवान् वीर एवाह, यत एवं तसात् स भिक्षुः 'अध्यात्मविशुद्धः सुविशुद्धान्तःकरणः सुष्टु 18 रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'व्रजेत् गच्छेत्संयमोघो-18 | गवान् भवेदिति, इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ॥ २२॥ इति चतुर्थ स्त्रीपरिज्ञाध्ययनं परिसमाप्तम् ।। Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy