SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ केशा विद्यन्ते यस्याः सा केशिका णमिति वाक्यालङ्कारे, हे भिक्षो! यदि मया 'स्त्रिया' भार्यया केशवत्या सह नो विह| रेस्वं, सकेशया स्त्रिया भोगान् भुञ्जानो व्रीडां यदि वहसि ततः केशानप्यहं वत्सङ्गमाकाटिणी 'लुश्चिष्यामि' अपनेष्यामि, आस्तां तावदलङ्कारादिकमित्यपिशब्दार्थः, अस चोपलक्षणार्थवादन्यदपि यद् दुष्करं विदेशगमनादिकं तत्सर्वमहं करिष्ये, वं पुनर्मया रहितो नान्यत्र चरेः, इदमुक्तं भवति-मया रहितेन भवता क्षणमपि न स्थातव्यम्, एतावदेवाहं भवन्तं प्रार्थयामि, अहमपि यद्भवानादिशति तत्सर्व विधास्य इति ॥३॥ इत्येवमतिपेशलैर्विश्रम्भजननैरापातभद्रकैरालापैर्विश्रम्भयिखा यत्कुर्वन्ति तदर्शयितुमाह-'अथे' त्यानन्तर्यार्थः, णमिति वाक्यालङ्कारे, विश्रम्भालापानन्तरं यदाऽसौ साधुर्मदनुरक्त इत्येवम् 'उपलब्धो' भवति-आकारैरिङ्गितैश्चेष्टया वा मदशग इत्येवं परिज्ञातो भवति ताभिः कपटनाटकनायिकाभिः स्त्रीभिः, ततः तदभिप्रायपरिज्ञानादुत्तरकालं 'तथाभूतैः कर्मकरव्यापारैरैपशदैः 'प्रेषयन्ति' नियोजयन्ति यदिवा तथाभूतैरिति लिङ्गस्थयोग्यैर्व्यापारैः प्रेषयन्ति, तानेव दर्शयितुमाह-'अलाउ'त्ति अलाबु-तुम्ब छिद्यते येन तदलाबुच्छेदं–पिप्पलकादि शस्त्रं 'पेहाहित्ति प्रेक्षत निरूपय लभस्खेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा 'वल्यूनि' शोभनानि 'फलानि' नालिकेरादीनि अलाबुकानि वा खम् 'आहर' आनयेति, यदिवा-चाक्फलानि च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा | वाचो यानि फलानि-वस्त्रादिलाभरूपाणि तान्याहरेति ॥ ४ ॥ अपिच १०शब्दैः प्र. खेटं पापमपशदमिति हैमः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy