________________
बालस्स मंदयं बीयं, जं च कडं अवजाणई भुजो । दुगुणं करेइ से पावं, पूयणकामो विसन्नेसी ॥२९॥ संलोकणिज्जमणगारं, आयगयं निमंतणेणाहंसु। वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥३०॥ णीवारमेवं बुज्झेजा, णो इच्छे अगारेमागंतुं । बद्धे विसयपासेहि, मोहमावज्जइ पुणो मंदे ॥३१॥
त्तिबेमि । इति इत्थीपरिन्नाए पढमो उद्देसो समत्तो ॥४-१॥ (गाथाग्र. २८७) 'बालस्य' अज्ञस्य रागद्वेषाकुलितस्यापरमार्थदृश एतद्वितीयं 'मान्छ' अज्ञखम् , एक तावदकार्यकरणेन चतुर्थवतभङ्गो द्वितीयं तदपलपनेन मृषावादः, तदेव दर्शयति-यत्कृतमसदाचरणं 'भूयः' पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति-नैतन्मया कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेन च द्विगुणं पापं करोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्कामः-तदभिलाषी मा मे लोके अवर्णवादः स्यादित्यकार्य प्रच्छादयति विषण्णः-असंयमस्तमेपितुं शीलमस्येति विषण्णैषी ॥२९॥ किञ्चान्यत्-संलोकनीयं-संदर्शनीयमाकृतिमन्तं कञ्चन 'अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं काश्चन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरःसरम् 'आहुः उक्तवत्यः, तद्यथा—हे त्रायिन् ! साधो वस्त्रं पात्रमन्यद्वा पानादिकं येन केनचिद्भवतः प्रयोजनं तदहं भवते सर्व ददामीति मगृहमागत्य प्रतिगृहाण खमिति ॥३० ।। उपसंहारार्थमाह-एतद्योषितां
१०मावति पाठान्तरसंभवः ।
90002888888829002020
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org