________________
easabasaceae900000000
९ इत्येवमसौ विलपन्नपि वातिकैश्चितायां प्रक्षिप्तः, तथापि नासौ तासु श्रद्धानं कृतवान् , एवमन्येनापि न श्रद्धातव्यमिति ॥२४॥ किश्चान्यत्जुवती समणं बूया,विचित्तलंकारवत्थगाणि परिहित्ता। विरता चरिस्सहं रुक्खं,धम्ममाइक्खणे भयंतारो | अदु साविया पवाएणं, अहमंसि साहम्मिणी यसमणाणं। जतुकुंभे जहा उवज्जोई,संवासे विदू विसीएज्जा 8
'युवतिः' अभिनवयौवना स्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरा मायया श्रमणं ब्रूयात् , तद्यथा-विरता अहं गृहपाशात् न ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्येतत् 'चरिष्यामि' करिष्याम्यहं 'रूक्ष मिति संयम, मौनमिति वा कचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व 'णे'त्ति अस्माकं हे भयत्रातः!, यथाऽहमेवं दुःखानां भाजनं न भवामि तथा धर्ममावेदयेति ॥ २५॥ किश्चान्यत्-अथवाऽनेन 'प्रवादेन' व्याजेन साध्वन्तिकं योषिदुपसत्| यथाऽहं श्राविकेतिकृखा युष्माकं श्रमणानां साधर्मिणीत्येवं प्रपञ्चेन नेदीयसीभूता कूलवालुकमिव साधु धर्माद्धंशयति, एतदुक्तं भवति-योषित्सानिध्यं ब्रह्मचारिणां महतेऽनाय, तथा चोक्तम्- "तज्ज्ञानं तच्च विज्ञानं, तत्तपः स च संयमः । सर्वमेकपदे भ्रष्टं, सर्वथा किमपि स्त्रियः ॥१॥" अस्मिन्नेवार्थे दृष्टान्तमाह-यथा जातुषः कुम्भो 'ज्योतिषः' अग्नेः समीपे व्यवस्थित
१ धूतैः वि० प० ।
Maxaco eacoceae
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org