SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचाीयवत्तियुतं ४ स्त्रीपरिज्ञाध्य. उद्देशः १ ॥११०॥ 20000000000000029929929 __ 'बहवः' केचन गृहाणि 'अपहृत्य' परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं इति द्रव्यलिङ्गमात्रसद्भावाद्भावतस्तु | गृहस्थसमकल्पा इत्येवम्भूता मिश्रीभाव 'प्रस्तुताः' समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तो ध्रुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि-ते वक्तारो भवन्ति यथाऽयमेवासदारब्धो मध्यमः पन्थाः श्रेयान् , तथा | हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्य नानुष्ठानकृतं, तथाहि-ते द्रव्यलिङ्गधारि णो वामात्रेणैव वयं प्रव्रजिता इति ब्रुवते नतु तेषां सातगौरव विषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं वीर्यमस्ती|ति ॥ १७॥ अपिचस कुशीलो वाङ्मात्रेणाविष्कृतवीर्यः 'पर्षदि' व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं 'शुद्धम्' अपगत| दोषमात्मानमात्मीयानुष्ठानं वा रौति' भाषते अथानन्तरं 'रहस्ये एकान्ते 'दुष्कृतं पापं तत्कारणं वाऽसदनुष्ठानं 'करोति' | विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि 'जानन्ति' विदन्ति, के ?-तथारूपमनुष्ठानं विदन्तीति तथाविदः-इङ्गिताकार| कुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति-यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विद|न्ति, तत्परिज्ञानेनैव किं न पर्याप्तं ?, यदिवा-मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाका|यकारी न मां कश्चिज्जानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम्-"न ये लोणं लोणिज्जइ ण य| | तुप्पिज्जइ घयं व तेल्लं वा । किह सको वंचेउं अत्ता अणुहयकल्लाणो ॥१॥"॥ १८॥ किश्चान्यत् १०वेदा प्र० । २ न च लवणं लवणीयते न प्रक्ष्यते घृतं च तैलं च । किं शक्य वंचयितुं आत्माऽनुभूताकल्याणः ॥ ० ३ सका प्र० । ॥११०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy