SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Sa900a0a999999999800900 एव श्रेयानिति । एवं यदुक्तं 'स्त्रीपरिजे'ति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम्, अन्यथा 'पुरुषपरिज्ञे'त्यपि वक्तव्येति, साम्प्रतं सूत्रा|नुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्जे मायरं च पियरं च, विप्पजहाय पुवसंजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ॥१॥ सुहुमेणं तं परिकम्म, छन्नपएण इथिओ मंदा। उव्वायपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे॥२॥ ___ अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अनन्तरसूत्रेऽभिहितम् , आमोक्षाय परिव्रजेदिति, एतच्चाशेषाभिष्वङ्गवर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'यः कश्चिदुत्तमसत्त्वो 'मातरं पितरं' जननी जनयितारम्, एतद्ग्रहणादन्यदपि भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वशुरादिकं पश्चात्संयोगं च 'विप्रहाय' त्यक्ता, चकारौ समुच्चयार्थी, 'एको मातापित्राध| भिष्वङ्गवर्जितः कषायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः खस्मै वा हितः स्वहितः-परमार्थानुष्ठानविधायी 'चरिष्यामि' संयम करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञा सर्वप्रधानभूतां लेशतो दर्शयति-'आरतम्' उपरतं मैथुनं-कामाभिलाषो | यस्यासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, कचित्पाठो 'विवित्तेसित्ति' 'विविक्तं'-स्त्रीपण्डकादिरहितं स्थानं संयमानुपरोध्येषितुं शीलमस्य तथेति ॥ १ ॥ तस्यैवं ६ कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकिस्त्रीजनात्तदर्शयितुमाह-'मुहुमेणं' इत्यादि, 'तं' महापुरुष साधु 'सूक्ष्मेण' अपरकार्यव्यपदेशभूतेन 'छन्नपदेने ति छद्मना-कपटजालेन 'पराक्रम्य' तत्समीपमागत्य, यदिवा-'पराक्रम्येति शीलस्खलनयोग्यतापत्त्या Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy