________________
| यथा [ग्रन्थानम् ३००० ] नाम कश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्छित्त्वा पराअखस्तिष्ठेत् , किमेतावतोदासीनभावावलम्बनेन 'न गृह्यत' नापराधी भवेत् । तथा यथा कश्चिद्विषगण्डूषं 'गृहीबा' पीला नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं | नाम 'ततः' असावन्यादर्शनात् न म्रियेत? । तथा-यथा कश्चित् श्रीगृहाद्-भाण्डागाराद्रत्नानि महा_णि गृहीला परामुखस्तिष्ठेत् , 19 | किमेतावताऽसौ न गृह्यतेति ? । अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूपरत्नापहाराख्ये सत्यपि दोषत्रये || & माध्यस्थ्यमवलम्बेत, न च तस्य तदवलम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके । कुतो निर्दोषतेति, तथा चोक्तम्-"प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणकप्रवेशज्ञाततस्तथा ॥१॥ मूलं || चैतदधर्मस्य, भवभावप्रवर्धनम् । तस्माद्विषान्नवच्याज्यमिदं पापमनिच्छता ॥२॥" इति नियुक्तिगाथात्रयतात्पर्यार्थः॥ ॥ साम्प्रतं सूत्रकार उपसंहारव्याजेन गण्डपीडनादिदृष्टान्तवादिनां दोषोद्विभावयिषयाह-'एव' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष | मैथुनमिति मन्यमाना 'एके' स्त्रीपरीषहपराजिताः सदनुष्ठानात्पाघे तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः, तुशब्दात् खयथ्या वा, तथा मिथ्या-विपरीता तत्वाग्राहिणी दृष्टिः-दर्शनं येषां ते तथा, आरात्-दूरे याता—गताः सर्वहेयधर्मेभ्य | इत्यार्याः न आर्या अनार्याः धर्मविरुद्धानुष्ठानात् , त एवंविधा 'अध्युपपन्ना' गृनव इच्छामदनरूपेषु कामेषु कामैर्वा करणभूतैः सावद्यानुष्ठानेष्विति, अत्र लौकिक दृष्टान्तमाह-यथा वा 'पूतना' डाकिनी 'तरुणके' स्तनन्धयेऽध्युपपन्ना, एवं तेऽप्यनार्याः कामेष्विति, यदिवा 'पूयण'त्ति गड्डरिका आत्मीयेऽपत्येऽध्युपपन्ना, एवं तेऽपीति, कथानकं चात्र-यथा किल सर्वपशूनामप
in Education International
For Personal & Private Use Only
www.janelibrary.org