SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सप्तमे खिदमभिहितं, तद्यथा-निःशीला-गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स परित्यक्तनिःशीलकुशील इति, तथा सुशीला-उद्युक्तविहारिणः संविनाः-संवेगमनास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमेश खेतत्प्रतिपाद्यते, तद्यथा-ज्ञाला वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति, नवमे अर्थाधिकारस्त्वयं, तद्यथा-यथाऽवस्थितो धर्मः कथ्यते, दशमे तु समाधिः प्रतिपाद्यते, एकादशे तु सम्यग्दर्शनज्ञानचारित्रात्मको मोक्षमार्गः कथ्यते, द्वादशे खयमर्थाधिकारः, तद्यथा-'समवस्ता' अवतीर्णा व्यवस्थिताश्चतुर्यु मतेषु क्रियाक्रियाऽज्ञानवैनयिकाख्येष्वभिप्रायेषु त्रिषट्युत्तरशतत्रयसंख्याः पापण्डिनः स्वीयं स्वीयमर्थ प्रसाधयन्तः समुत्थितास्तदुपन्यस्तसाधनदोषोद्भावनतो निराक्रियन्ते, त्रयोदशे खिदमभिहितं, तद्यथासर्ववादिषु कपिलकणादाक्षपादशौद्धोदनिजैमिनिप्रभृतिमतानुसारिषु कुमार्गप्रणेतृख साध्यते, चतुर्दशे तु ग्रन्थाख्येऽध्ययनेऽयमर्थाधिकारः, तद्यथा-शिष्याणां गुणदोषकथना, तथा शिष्यगुणसम्पदुपेतेन च विनेयेन नित्यं गुरुकुलवासो विधेय इति, पञ्चदशे | त्वादानीयाख्येऽध्ययनाधिकारोऽयं, तद्यथा-आदीयन्ते-गृह्यन्ते उपादीयन्ते इत्यादानीयानि-पदान्यर्था वा ते च प्रागुपन्यस्त| पदैरथैश्च प्रायशोत्र संकलिताः, तथा आयतं चरित्रं-सम्यक्चरित्रं मोक्षमार्गप्रसाधकं तच्चात्र व्यावर्ण्यत इति, षोडशे तु गाथाख्येऽल्पग्रन्थेऽध्ययनेऽयमों व्यावयेते, तद्यथा-पञ्चदशभिरध्ययनैर्योऽर्थोऽभिहितः सोऽत्र 'पिण्डितवचनेन' संक्षिप्ताभिधानेन प्रतिपाद्यत इति ॥ २८ ॥ 'गाहासोलसगाणं पिंडत्थो वण्णिओ समासेणं । इत्तो इक्विकं पुण अज्झयणं कित्तयिस्सामि॥१॥ १ गुणानुरूपगु० प्र०२ गाथाषोडशकानां पिण्डार्थों वर्णितः (समुदायार्थः) समासेन । इत एकैकं पुनरध्ययनं कीर्तयिष्यामि ॥१॥३ चूर्णिगाथा Jain Education M o nal For Personal & Private Use Only Mainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy