________________
IS परस्परोपकाररहितं दर्शनमापना. अयशलाकाकल्पाः, ते च गोशालकमतानुसारिण आजीविका दिगम्बरा वा, त एवं|
वक्ष्यमाणं परि-समन्ताद्भाषन्ते । तं भिक्षुकं साध्वाचारं साधु-शोभनं परोपकारपूर्वकं जीवितुं शीलमस स साधुजीविनमिति, 'ये' ते अपुष्टधर्माण 'एवं' वक्ष्यमाणं 'परिभाषन्ते' साध्वाचारनिन्दा विदधति त एवंभूता 'अन्तके' पर्यन्ते रे 'समाधे'।
मोक्षाख्यात्सम्यग्ध्यानात्सदनुष्ठानात् वा वर्तन्त इति ॥८॥ यत्ते प्रभाषन्ते तद्दर्शयितुमाहAMI संबद्धसमकप्पा उ, अन्नमन्नेसु मुच्छिया । पिंडवायं गिलाणस्स, जं सारेह दलाह य ॥९॥ II एवं तुब्भे सरागत्था, अन्नमन्नमणुवसा । नटुसप्पहसब्भावा, संसारस्स अपारगा ॥१०॥
सम्–एकीभावेन परस्परोपकार्योपकारितया च 'बद्धाः' पुत्रकलत्रादिस्नेहपाशैः सम्बद्धा-गृहस्थास्तैः समः-तुल्यः | कल्पो-व्यवहारोऽनुष्ठानं येषान्ते सम्बद्धसमकल्पा-गृहस्थानुष्ठानतुल्यानुष्ठाना इत्यर्थः, तथाहि-यथा गृहस्था परस्परोपकारेण माता पुत्रे पुत्रोऽपि मात्रादावित्येवं 'मूच्छिता' अध्युपपन्नाः, एवं भवन्तोऽपि 'अन्योऽन्य' परस्परतः शिष्याचार्याद्युपकारक्रि-19
याकल्पनया मूञ्छिताः, तथाहि-गृहस्थानामयं न्यायो यदुत-परस्मै दानादिनोपकार इति, न तु यतीनां, कथमन्योऽन्यं मूर्छिता 1 इति दर्शयति-'पिण्डपातं' भैक्ष्यं 'ग्लानस्य' अपरस्य रोगिणः साधोः यद्-यस्मात् 'सारेह'त्ति अन्वेषयत, तथा 'दलाह || य'त्ति ग्लानयोग्यमाहारमन्विष्य तदुपकारार्थ ददध्वं, चशब्दादाचार्यादेः वैयावृत्त्यकरणाद्युपकारेण वर्तध्वं, ततो गृहस्थसमकल्पा
१ अन्वेषयन्ते प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org