SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गं शीलाङ्काचार्ययवृचियुतं ॥ ८८ ॥ किं पुनर्जरद्भवस्येति जीर्णग्रहणम्, एवमावर्तमन्तरेणापि धृतिसंहननोपेतस्य विवेकिनोऽप्यवसीदनं सम्भाव्यते, किं पुनरावर्ते| रुपसर्गितानां मन्दानामिति ॥ २१ ॥ सर्वोपसंहारमाह - ' एवं ' पूर्वोक्तया नीत्या विषयोपभोगोपकरणदानपूर्वकं 'निमन्त्रणं' विषयोपभोगं प्रति प्रार्थनं 'लब्ध्वा' प्राप्य 'तेषु' विषयोपकरणेषु हस्त्यश्वरथादिषु ' मूच्छिता' अत्यन्तासक्ताः तथा स्त्रीषु 'गृद्धा' दत्तावधाना रमणीरागमोहिताः तथा 'कामेषु' इच्छामदनरूपेषु 'अध्युपपन्ना:' कामगतचित्ताः संयमेऽवसीदन्तोऽपरे - | गोद्युक्तविहारिणा नोद्यमानाः - संयमं प्रति प्रोत्साह्यमाना नोदनां सोढुमशक्नुवन्तः सन्तो गुरुकर्माणः प्रव्रज्यां परित्यज्याल्प| सत्त्वा गृहं गता - गृहस्थीभूताः । इतिः परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति उपसर्गपरिज्ञाऽध्ययनस्य द्वितीय उद्देशः ॥ अथ तृतीयस्योपसर्गाध्ययनस्य तृतीयोदेशकः प्रारभ्यते ॥ उपसर्गपरिज्ञायां उक्तो द्वितीयोदेशकः, साम्प्रतं तृतीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशकाभ्यामुपसर्गा अनुकूलप्रतिकूल भेदेनाभिहिताः, तैश्वाध्यात्मविषीदनं भवतीति तदनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्योद्देशकस्यादि सूत्रम् Jain Education International For Personal & Private Use Only ३ उपस र्गाध्य० उद्देशः ३ 11 66 11 www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy