________________
१ ॥
जहा संगामकालंमि, पिटुतो भीरु वेहइ । वलयं गहणं णूमं, को जाणइ पराजयं १ ॥ मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई ॥ २ ॥
दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह-यथा कश्चिद् 'भीरुः' अकृतकरणः 'संग्राम - | काले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्श| यति- 'वलय' मिति यत्रोदकं वलयाकारेण व्यवस्थितम् उदकरहिंता वा गर्ता दुःखनिर्गमप्रवेशा, तथा 'गहनं' धवादिवृक्षैः केटिसंस्थानीयं 'णूमं 'ति प्रच्छन्नं गिरिगुहादिकं किमित्यसावेवमवलोकयति ?, यत एवं मन्यते तत्रैवम्भूते तुमुले सङ्ग्रामे सुभटसङ्घले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥ १॥ किञ्च - मुहूर्त्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्त' कालविशेषलक्षणोऽवसरस्तादृग् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं | व्यवस्थिते पराजिता वयम् 'अवसर्पामो' नश्याम इत्येतदपि सम्भाव्यते अस्मद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ शरणमुपेक्षते ॥ २ ॥ इति श्लोकद्वयेन दृष्टान्तं प्रदर्श्य दान्तिकमाह
१ कण्टिसं० प्र० २ युद्ध विषयत्वात् मायोपेक्षेन्द्रजालानि क्षुद्रोपाया इमे त्रय इति श्री हेमचन्द्रवचनादत्र क्षुद्रोपायपर उपेक्षि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org