________________
चर्या - दशविधचक्रवालसामाचारी इच्छा मिच्छेत्यादिका तथा चोदितां:- प्रेरिता यदिवा भिक्षुचर्यया करणभूतया सीदन्तवोदिताः -- तत्करणं प्रत्याचार्यादिकैः पौनःपुन्येन प्रेरितास्तच्चोदनामशक्नुवन्तः संयमानुष्ठानेनात्मानं 'यापयितुं' वर्तयितुमस मर्थाः सन्तः 'तत्र' तस्मिन् संयमे मोक्षैकगमनहेतौ भवकोटिशतावाप्ते 'मन्दा' जडा 'विषीदन्ति' शीतलविहारिणो भवन्ति, तमेवाचिन्त्यचिन्तामणिकल्पं महापुरुषानुचीर्णं संयमं परित्यजन्ति, दृष्टान्तमाह - ऊर्ध्वं यानमुद्यानं मार्गस्योन्नतो भाग उङ्कमित्यर्थः तस्मिन् उद्यानशिरसि उत्क्षिप्तमहाभरा उक्षाणोऽतिदुर्बला यथाऽवसीदन्ति - ग्रीवां पातयिखा तिष्ठन्ति नोत्क्षिप्तभरनिर्वाहका भवन्तीत्येवं तेऽपि भावमन्दा उत्क्षिप्तपश्च महाव्रतभारं वोदुमसमर्थाः पूर्वोक्तभावावर्तैः पराभन्ना विषीदन्ति ॥२०॥ किश्च - अचयंता व लूहेणं, उवहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणंसि जरग्गवा ॥ २१ ॥ एवं निमंतणं लडुं, मुच्छिया गिद्ध इत्थीसु । अज्झोववन्ना कामेहिं, चोइज्जंता गया गिहं ॥ २२ ॥ तिबेमि ॥ इति उवसग्गपरिण्णाए बितिओ उद्देसो सम्मत्तो ॥ ३-२ ॥ ( गाथाग्रं० २१३ ) 'रूक्षेण' संयमेनात्मानं यापयितुमशक्नुवन्तः तथा 'उपधानेन' अनशनादिना सबाह्याभ्यन्तरेण तपसा 'तर्जिता ' बाधिताः सन्तः तत्र संयमे मन्दा विषीदन्ति 'उद्यानशिरसि ' उट्टङ्कमस्त के 'जीर्णो' दुर्बलो गौरिव, यूनोऽपि हि तत्रावसीदनं सम्भाव्यते
१ बाधिता इति प्र० २ तण प्र०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org