SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ है वाया घोलेइ कंठमझमि । कहकहकहेइ हिययं देहित्ति परं भणंतस्स ॥१॥ गतिभ्रंशो मुखे दैन्य, गात्रवेदो विवर्णता । मरणे यानि चिह्नानि, तानि चिह्नानि याचके॥१॥" इत्यादि, एवं दुस्त्यजं याच्यापरीषहं परित्यज्य गताभिमाना महासत्त्वा ज्ञानाद्यभिवृद्धये महापुरुषसेवितं पन्थानमनुव्रजन्तीति । श्लोकपश्चार्द्धनाऽऽक्रोशपरीषहं दर्शयति'-पृथगजना' प्राकृतपुरुषा अनार्यकल्पा | 'इत्येवमाहुः' इत्येवमुक्तवन्तः, तद्यथा-ये एते यतयः जल्लाविलदेहा लुश्चितशिरसः क्षुधादिवेदनाग्रस्तास्ते एते पूर्वाचरितैः कर्मभिरार्ताः पूर्वखकृतकर्मणः फलमनुभवन्ति, यदिवा-कर्मभिः-कृष्यादिभिरार्ताः-तत्कर्तुमसमर्था उद्विग्नाः सन्तो यतयः | संवृत्ता इति, तथैते 'दुर्भगा: सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गतिकाः सन्तः प्रव्रज्यामभ्युपगता इति ॥६॥ एते सद्दे अचायंता, गामेसु णगरेसु वा । तत्थ मंदा विसीयंति, संगामंमिव भीरुया ॥७॥ अप्पेगे खुधियं भिक्खु, सुणी डंसति लूसए । तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो॥८॥ ___'एतान्' पूर्वोक्तानाक्रोशरूपान् तथा चौरचारिकादिरूपान् शब्दान् सोहुमशक्नुवन्तो ग्रामनगरादौ तदन्तराले वा व्यवस्थिताः 'तत्र' तसिन् आक्रोशे सति 'मन्दा' अज्ञा लघुप्रकृतयो 'विषीदन्ति' विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ति, यथा भीरवः18 | 'संग्रामे' रणशिरसि चक्रकुन्तासिशक्तिनाराचाकुले रटत्पटहशङ्खझल्लरीनादगम्भीरे समाकुलाः सन्तः पौरुषं परित्यज्यायशःपट- 18 हमङ्गीकृत्य भज्यन्ते, एवमाक्रोशादिशब्दाकर्णनादल्पसत्त्वाः संयमे विषीदन्ति ॥ ७॥ वधपरीषहमधिकृत्याह-'अप्पेगे' इत्या Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy