________________
। सवं नच्चा अहिट्ठए, धम्मट्ठी उवहाणवीरिए । गुत्ते जुत्ते सदाजए, आयपरे परमायतट्टिते ॥ १५॥
वित्तं पसवो य नाइओ, तंबाले सरणं ति मन्नइ। एते मम तेसुवी अहं, नो ताणं सरणं न विजई ॥ १६ ॥ ___ 'सर्वम् एतद्धेयमुपादेयं च ज्ञाखा सर्वज्ञोक्तं मार्ग सर्वसंवररूपम् 'अधितिष्ठेत् आश्रयेत् , धर्मेणार्थो धर्म एव वाऽर्थः परमार्थेनान्यस्यानर्थरूपखात् धर्मार्थः स विद्यते यस्यासौ धमार्थी-धर्मप्रयोजनवान् , उपधानं तपस्तत्र वीर्य यस्य स तथा अनिग्रहितबलवीर्य इत्यर्थः, तथा मनोवाकायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः 'सदा सर्वकालं यतेताऽऽत्मनि परसिंश्च । किंविशिष्टः सन् ? अत आह-परम-उत्कृष्ट आयतो-दीर्घः सर्वकालभवनात् मोक्षस्तेनार्थिकः तदभिलाषी पूर्वोक्तविशेषणविशिष्टो भवेदिति ॥ १५ ॥ पुनरप्युपदेशान्तरमाह-'वित्तं' धनधान्यहिरण्यादि 'पशवः' करितुरगगोम-12 | हिष्यादयो 'ज्ञातयः स्वजना मातापितृपुत्रकलत्रादयः तदेतद्वित्तादिकं 'बाल' अज्ञः शरणं मन्यते, तदेव दशर्यति-ममैते ||
वित्तपशुज्ञातयः परिभोगे उपयोक्ष्यन्ते, तेषु चार्जनपालनसंरक्षणादिना शेषोपद्रवनिराकरणद्वारणाहं भवामीत्येवं बालो मन्यते, |न पुनर्जानीते यदर्थ धनमिच्छन्ति तच्छरीरमशाश्वतमिति, अपिच-"रिद्धी सहावतरला रोगजराभंगुरं हयसरीरं। दोहंपि गम-18 णसीलाण किचिरं होज संबंधो? ॥१॥" तथा "मातापितृसहस्राणि, पुत्रदारशतानि च। प्रतिजन्मनि वर्तन्ते, कस्य माता पि
eroesesecevececeoceaesesectice
| १ऋभ्धिः खभावतरला रोगजराभङ्गुरं इतकं शरीरम् । द्वयोरपि गमनशीलयोः कियचिरं भवेत्संबन्धः। ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org