SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ceoececececececkeweseserveseicercel &स्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन ! खतोर्वाग्दी भवांस्तथाविधदर्शनप्रमाणश्च सन् कार्या कार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगमं नाकरिष्यत् , यदिवा अदक्षो वा अनिपुणो वा दक्षोवा-निपुणो वा यादृशस्तादृशो वाञ्चक्षुर्दर्शनमस्यासावचक्षुर्दर्शन:-केवलदर्शनः-सर्वज्ञस्तस्माद्यदवाप्यते हितं तत् श्रद्धस्व, इदमुक्तं भवति-अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा-हे 'अदृष्ट' हे अर्वागदर्शन! द्रष्ट्रा-अतीतानागतव्यवहितसूक्ष्मपदार्थदशिना ययाहृतम्-अभिहितमागमे तत् श्रद्धस्व, हे अदृष्टदर्शन अदक्षदर्शन ! इति वा-असर्वज्ञोक्तशासनानुयायिन् ! तमात्मीय|माग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्यार्थः, किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान करोति ? येनैवमुपदिS| श्यते, तन्निमित्तमाह-'हंदीत्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्टु-अतिशयेन निरुद्धम्-आवृतं दर्शन-सम्यग् अवबो| धरूपं यस्य स तथा, केनेत्याह-मोहयतीति मोहनीयं-मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृतेन कर्मणा निरुद्धदर्शन: प्राणी सर्वज्ञोक्त मार्ग न श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति ॥ ११ ॥ पुनरप्युपदेशान्तरमाह-दुःखम्-असातवेदनी-| यमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति सदसद्विवेकविकलो भवति, | इदमुक्तं भवति-असातोदयात् दुःखमनुभवन्ना? मृढस्तत्तत्करोति येन पुनः पुनः दुःखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं | मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सयेत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा 'पूजनं वस्त्रादिलाभरूपं परिहरेत् , 'एवम् अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रवजितोऽपरप्राणिभिः secevecececececca sececececece Jain Education For Personal & Private Use Only ainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy