________________
'तरुण एव' युवैव वर्षशतायुरप्युपक्रमतोऽध्यवसाननिमित्तादिरूपादायुषः 'त्रुव्यति' प्रच्यवते, यदिवा-साम्प्रतं सुबहप्यायवर्ष* शतं तच्च तस्य तदन्ते त्रुट्यति, तच्च सागरोपमापेक्षया कतिपयनिमेषप्रायखात् इसरवासकल्पं वर्तते-स्तोकनिवासकल्पमित्येवं
बुध्यध्वं यूयं, तथैवम्भूतेऽप्यायुषि 'नराः' पुरुषा लघुप्रकृतयः 'कामेषु' शब्दादिषु विषयेषु 'गृहा' अध्युपपन्ना मूछिताः। | तत्रैवाऽऽसक्तचेतसो नरकादियातनास्थानमाप्नुवन्तीति शेषः ॥८॥ अपिच
जे इह आरंभनिस्सिया, आतदंडा(ड)एगंतलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं॥९॥ &णय संखयमाहु जीवितं, तहवि य बालजणो पगब्भई। पञ्चुप्पन्नेण कारियं,को दटुं परलोयमागते ?॥१०॥
ये केचन महामोहाकुलितचेतसः 'इह' अस्मिन्मनुष्यलोके 'आरम्भे' हिंसादिके सावद्यानुष्ठानरूपे निश्चयेन श्रिताः-संबद्धा अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनैव जन्तूनां लूषका-हिंसकाः सदनुष्ठानस्य वा ध्वंसकाः, ते एवम्भूता 'गन्तारो' यास्यन्ति 'पापं लोकं' पापकर्मकारिणां यो लोको नरकादिः 'चिररात्रम्' इति प्रभूतं कालं तनिवासिनो भव|न्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवखापत्तिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्वि-18 पिका देवाधमा भवन्तीत्यर्थः ॥ ९॥ किञ्च-'न च' नैव त्रुटितं जीवितमायुः 'संस्का ' संधातुं शक्यते, एवमाहुः सर्वज्ञाः, तथाहि-दंडकलियं करिन्ता वच्चंति हु राइओ य दिवसा य । आउं संवेल्लंता गया यण पुणो नियत्तंति ॥१॥" 'तथापि एवमपि । १ दण्डकलितं कुर्वत्त्यो ब्रजन्ति रात्रयश्च दिवसाश्च । आयुः संवेलयन्त्यः गताश्च पुनर्न निवर्तन्ते ॥१॥
सत्रक्र.१३
For Personal & Private Use Only
nelbaryo