SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ संवृतानि-निरुद्धानि कर्माणि-अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा । यस्य 'भिक्षो' साधोः स तथा तस्स यत् 'दुःखम्' असद्वेषं तदुपादानभूतं वाऽष्टप्रकारं कर्म 'स्पृष्टमिति बद्धस्पृष्टनिकाचित| मित्यर्थः, तच्चात्र 'अबोधिना' अज्ञानेनोपचितं सत् 'संयमतो' मौनीन्द्रोक्तात् सप्तदशरूपादनुष्ठानाद् 'अपचीयते' प्रतिक्षणं क्षयमुपयाति, एतदुक्तं भवति-यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात् प्रत्यहमपचीयते, एवं 18 संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, %8| ये च संवृतात्मानः सदनुष्ठायिनश्च ते 'हित्वा' त्यक्खा 'मरणं' मरणस्वभावमुपलक्षणखात् जातिजरामरणशोकादिकं त्यक्ता मोक्षं व्रजन्ति 'पण्डिताः' सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति ॥१॥ येऽपिच तेनैव | भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता, विज्ञापनाः-स्त्रियस्ताभिः 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते 'सन्तीर्णै: मुक्तैः समं व्याख्याताः, अतीर्णा अपि सन्तो यतस्ते निष्किञ्चनतया शब्दादिषु विषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तसाद् 'ऊ|मिति' मोक्षं योषित्परित्यागाद्वोर्ध्वं यद्भवति तत्पश्यत यूयं । ये च कामान् 'रोगवदू' व्याधिकल्पान् 'अद्राक्षुः' दृष्टवन्तस्ते |संतीर्णसमा व्याख्याताः, तथा चोक्तम्-"पुप्फंफलाणं च रसं सुराइ मंसस्स महिलियाणं च । जाणता जे विरया ते दुक्करकारए १ झोषोऽवसानम् । २ स्तटान्तर्व० प्र० । ३ पुष्पफलानां च रसं सुराया मांसस्य महेलानां च । जानन्तो ये विरतास्तान् दुष्करकारकान् वन्दे ॥१॥ eeeeeeeeeeeeeeeeeeeeeee Jain Education na For Personal & Private Use Only HOW ainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy