________________
सूत्रकृताङ्गं शीलाङ्काचार्यायवृत्तियुत
२ वैतालीयाध्य उद्देशः २
॥६९॥
धूननाहखात् 'धूतं' कर्मेति ॥ २९ ॥ अपि च स्निह्यत इति स्निहः न स्निहः अस्निहः-सर्वत्र ममखरहित इत्यर्थः, यदिवा- परीषहोपसगैर्निहन्यते इति निहः न निहोऽनिहः-उपसगैरपराजित इत्यर्थः, पाठान्तरं वा 'अणहे'ति नास्साघमस्तीत्यनघो, | निरवद्यानुष्ठायीत्यर्थः, सह हितेन वर्तत इति सहितः सहितो-युक्तो वा ज्ञानादिभिः, स्वहितः-आत्महितो वा सदनुष्ठानप्रवृत्तेः, तामेव दर्शयति-सुष्टु 'संवृत' इन्द्रियनोइन्द्रियैर्विस्रोतसिकारहित इत्यर्थः, तथा धर्मः-श्रुतचारित्राख्यः तेनार्थः-प्रयोजनं स एव वाऽर्थः तस्यैव सद्भिर्यमाणखात् धर्मार्थः स यस्यास्तीति स धर्मार्थी तथा उपधानं तपस्तत्र वीर्यवान् स एवम्भूतो 'विहरेत्' | संयमानुष्ठानं कुर्यात् 'समाहितेन्द्रियः' संयतेन्द्रियः, कुत एवं ?-यत आत्महितं दुःखेनासुमता संसारे पर्यटता अकृतधर्मानुष्ठानेन 'लभ्यते' अवाप्यत इति, तथाहि "न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १॥" तथाहि-युगसमिलादिदृष्टान्तनीत्या मनुष्यभव एव तावत् दुर्लभः, तत्राप्यार्यक्षेत्रादिकं दुरापमिति, अत | आत्महितं दुःखेनावाप्यत इति मन्तव्यम् , अपिच-भूतेषु जङ्गमख तसिन् पञ्चेन्द्रियसमुत्कृष्टम् । तस्मादपि मानुष्यं मानुष्येऽ| प्यार्यदेशश्च ॥ १॥ देशे कुलं प्रधानं कुले प्रधाने च जातिरुत्कृष्टा । जातौ रूपसमृद्धी रूपे च बलं विशिष्टतमम् ॥ २॥ भवति बले चायुष्कं प्रकृष्टमायुष्कतोऽपि विज्ञानम् । विज्ञाने सम्यक्त्रं सम्यक्खे शीलसंप्राप्तिः, ॥३॥ एतत्पूर्ववायं समासतो मोक्षसाधनोपायः । तत्र च बहु सम्प्राप्तं भवद्भिरल्पं च संप्राप्यम् ॥ ४॥ तत्कुरुतोद्यममधुना मदुक्तमार्गे समाधिमाधाय । त्यक्सा सङ्गमनार्य कार्य सद्भिः सदा श्रेयः॥५॥ इति ॥ ३०॥ एतच्च प्राणिभिर्न कदाचिदवाप्तपूर्वमित्येतद्दर्शयितुमाह१स तदर्थः प्र० ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org