SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तरूपेण वा चरतीति प्राश्निको न भवेत् , नापिच 'संप्रसारकः' देववृष्ट्यर्थकाण्डादिसूचककथाविस्तारको भवेदिति, किं कृलेति | दर्शयति-'ज्ञात्वा' अवबुद्ध्य नास्योत्तरो विद्यत इत्यनुत्तरस्तं श्रुतचारित्राख्यं धर्म सम्यग् अवगम्य, तस्य हि धर्मस्यैतदेव फलं यदुत-विकथानिमित्तपरिहारेण सम्यक्रियावान् स्यादिति, तद्दर्शयति-कृता-खभ्यस्ता क्रिया-संयमानुष्ठानरूपा येन स कृतक्रियस्तथाभूतश्च नचापि 'मामको' ममेदमहमस्य स्वामीत्येवं परिग्रहाग्रही भवेदिति ॥ २८ ॥ किश्च ४ छन्नं च पसंस णो करे,न य उक्कोस पगास माहणे।तेसिं सुविवेगमाहिए, पणया जेहिं सुजोसिअंधुयं॥२९॥ 8 अणिहे सहिए सुसंवुडे, धम्मट्टी उवहाणवीरिए।विहरेज समाहिइंदिए,अत्तहिअं खुदुहेण लब्भइ॥३०॥ ___ 'छन्नं'ति माया तस्याः खाभिप्रायप्रच्छादनरूपखात् तां न कुर्यात् , चशब्द उत्तरापेक्षया समुच्चयार्थः, तथा प्रशस्यते-सर्वैरप्यविगानेनाद्रियत इति प्रशस्यो-लोभस्तं च न कुर्यात् , तथा जात्यादिभिर्मदस्थानलघुप्रकृति पुरुषमुत्कर्षयतीत्युकर्षको-मानस्तमपि न कुर्यादिति सम्बन्धः, तथाऽन्तर्व्यवस्थितोऽपि मुखदृष्टिभ्रूभङ्गविकारैः प्रकाशीभवतीति प्रकाशः-क्रोधस्तं च 'माहणे' त्ति साधुन कुर्यात् , 'तेषां कषायाणां यैर्महात्मभिः 'विवेक' परित्यागः 'आहितो' जनितस्त एव धर्म प्रति प्रणता इति, | यदिवा तेषामेव सत्पुरुषाणां सुष्टु विवेकः परिज्ञानरूप आहितः प्रथितः प्रसिद्धिं गतः त एव च धर्म प्रति प्रणताः 'यैः' महा| सत्वैः सुष्टु 'जुष्टं सेवितं धूयतेऽष्टप्रकारं कर्म तद्भूतं संयमानुष्ठानं, यदिवा-यैः सदनुष्ठायिभिः 'सुजोसिअंति सुष्टु क्षिप्त Poesesetseseseeeeececemercedesese Jain Education For Personal & Private Use Only ONainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy