________________
edeceasedeseseseeeeeeeeeees
णय संखयमाहुजीवियं,तहविय बालजणो पगब्भाबाले पापेहिं मिजती, इति संखाय मुणीण मजती॥ छंदेण पले इमा पया, बहुमाया मोहेण पाउडा। वियडेण पलिंति माहणे, सीउण्हं वयसाऽहियासए॥२२॥ ___'न च' नैव 'जीवितम्' आयुष्कं कालपर्यायेण त्रुटितं सत् पुनः 'संखय'मिति संस्कर्तुं तन्तुवत्संधातुं शक्यते इत्येवमाहुस्तद्विदः, तथाऽपि एवमपि व्यवस्थिते 'बाल' अज्ञो जनः 'प्रगल्भते' पापं कुर्वन् धृष्टो भवति, असदनुष्ठानरतोपि न लज्जत इति, स चैवम्भूतो बालस्तैरसदनुष्ठानापादितः 'पापैः कर्मभिः 'मीयते' तद्युक्त इत्येवं परिच्छिद्यते, भ्रियते वा मेयेन धान्यादिना प्रस्थकवदिति, एवं 'संख्याय' ज्ञाखा 'मुनिः' यथावस्थितपदार्थानां वेत्ता 'न माद्यतीति' तेष्वसदनुष्ठानेष्वहं शोभनः कर्तेत्येवं प्रगल्भमानो मदं न करोति ॥२१॥ उपदेशान्तरमाह-'छन्दः' अभिप्रायस्तेन तेन खकीयाभिप्रायेण कुगतिग| मनैकहेतुना 'इमाः प्रजाः' अयं लोकस्तासु गतिषु प्रलीयते, तथाहि-छागादिवधमपि स्वाभिप्रायग्रहग्रस्ता धर्मसाधनमित्येवं | प्रगल्भमाना विदधति, अन्ये तु संघादिकमुद्दिश्य दासीदासधनधान्यादिपरिग्रहं कुर्वन्ति, तथाऽन्ये मायाप्रधानैः कुकुटैरसकृदु| प्रोक्षणश्रोत्रस्पर्शनादिभिर्मुग्धजनं प्रतारयन्ति, तथाहि-'कुक्कुटसाध्यो लोको नाकुकुटतः प्रवर्तते किश्चित् । तसाल्लोकस्यार्थे | | पितरमपि सकुकुटं कुर्यात् ॥१॥' तथेयं प्रजा 'बहुमाया' कपटप्रधाना, किमिति ?-यतो मोहः-अज्ञानं तेन 'प्रावृता' आच्छा| दिता सदसद्विवेकविकलेत्यर्थः, तदेतदवगम्य 'माहणे'त्ति साधुः 'विकटेन' प्रकटेनामायन कर्मणा मोक्षे संयमे वा प्रकर्षण
१ बस्तादीति प्र० । २ कुरुकुचैः इति प्र० ।
सूत्रकृ. १२ Jain Education international
For Personal & Private Use Only
www.jainelibrary.org