SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं ॥ ६५ ॥ नक्रादिभिः परीषहोपसर्गैरक्षुभ्यन् 'समविषमाणि' शयनासनादीन्यनुकूल प्रतिकूलानि 'मुनिः' यथावस्थितसंसारस्वभाववेत्ता | सम्यग् - अरक्तद्विष्टतयाऽधिसहेत, तत्र च शून्यगृहादौ व्यवस्थितस्य तस्य चरन्तीति चरका - दंशमशकादयः अथवापि 'भैरवा' | भयानका - रक्षः शिवायः अथवा तत्र सरीसृपाः स्युः ' भवेयुः, तत्कृतांश्च परीषहान् सम्यक् अधिषहेतेति ॥ १४ ॥ साम्प्रतं त्रिविधोपसर्गाधिसहनमधिकृत्याह - | तिरिया मणुया य दिवगा, उवसग्गा तिविहाऽहियासिया । लोमादीयं ण हारिसे, सुन्नागारगओ महामुणी | णो अभिकंखेज जीवियं, नोऽविय पूयणपत्थए सिया । अब्भत्थमुविंति भेरवा, सुन्नागारगयस्स भिक्खुणो 'तैरश्वाः' सिंहव्याघ्रादिकृताः तथा 'मानुषा' अनुकूलप्रतिकूलाः सत्कारपुरस्कारदण्डकशाताडनादिजनिताः, तथा 'दिव्वगा' इति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः, एवं त्रिविधानप्युपसर्गान् 'अधिसहेत' नोपसगैर्विकारं गच्छेत्, तदेव दर्श| यति- 'लोमादिकमपि न हर्षेत्' भयेन रोमोद्गममपि न कुर्यात्, यदिवा - एवमुपसर्गास्त्रिविधा अपि 'अहियासिय'त्ति अधिसोढा भवन्ति यदि रोमोद्गमादिकमपि न कुर्यात्, आदिग्रहणात् दृष्टिमुखविकारादिपरिग्रहः, शून्यागारगतः, शून्य गृहव्यवस्थितस्य चोपलक्षणार्थत्वात् पितृवनादिस्थितो वा 'महामुनिः' जिनकल्पिकादिरिति ।। १५ ।। किञ्च स तैर्भैरवैरुपसर्गैरुदीर्णैस्तोतुद्यमानोऽपि जीवितं न अभिकाङ्क्षत, जीवितनिरपेक्षेणोपसर्गः सोढव्य इति भावः, न चोपसर्गसहनद्वारेण 'पूजाप्रार्थकः' प्रकर्षाभिलाषी 'स्यात्' भवेत्, एवं च जीवितपूजानिरपेक्षेणासकृत् सम्यक सह्यमाणा भैरवा - भयानकाः शिवापिशाचादयोऽभ्यस्तभावं Jain Education International For Personal & Private Use Only २ वैताली - याध्य० उद्देशः २ ॥ ६५ ॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy