________________
तथा वर्णगन्धरसस्पर्शकरणं विशिष्टेषु भोजनादिषु सत्सु यद्विशिष्टवर्णाद्यापादनमिति, एतच्च पुद्गलविपाकित्वाद्वर्णादीनामजीवाश्रितमपि द्रष्टव्यमिति ॥ १४ ॥ इदानीं विस्रसाकरणाभिधित्सयाहवण्णादिया य वण्णादिएसु जे केइ वीससामेला।ते हुंति थिरा अथिरा छायातवदुद्धमादीसु ॥ १५॥
'वर्णादिका' इति रूपरसगन्धस्पर्शाः ते यदाऽपरेष्वपरेषां वा खरूपादीनां मिलन्ति ते वर्णादिमेलका विस्रसाकरणं, ते च मेलकाः स्थिरा–असंख्येयकालावस्थायिनः, अस्थिराश्च-क्षणावस्थायिनः, सन्ध्यारागाभ्रेन्द्रधनुरादयो भवन्ति, तथा छायाखेनातपखेन च । ४ पुद्गलानां विस्रसापरिणामत एव परिणामो भावकरणं दुग्धादेश्च स्तनप्रच्यवनानन्तरं प्रतिक्षणं कठिणाम्लादिभावेन गमनमिति ||
॥ १५॥ साम्प्रतं श्रुतज्ञानमधिकृत्य मूलकरणाभिधित्सयाऽऽह12 मूलकरणं पुण सुते तिविहे जोगे सुभासुभे झाणे ।.ससमयसुएण पगयं अज्झवसाणेण य सुहेणं ॥१६॥
'श्रुते' पुनः श्रुतग्रन्थे मूलकरणमिदं 'त्रिविधे योगे' मनोवाकायलक्षणे व्यापारे शुभाशुभे च ध्याने वर्तमानैर्ग्रन्थरचना | क्रियते, तत्र लोकोत्तरे शुभध्यानावस्थितैर्ग्रन्थरचना विधीयते, लोके खशुभध्यानाश्रितैर्ग्रन्थग्रथनं क्रियत इति, लौकिकग्रन्थस्य कर्मबन्धहेतुखात् कर्तुरशुभध्यायिखमवसेयम् , इह तु सूत्रकृतस्य तावत्वसमैयखेन शुभाध्यवसायेन चे प्रकृतं, यस्माद्गणधरैः शुभध्यानावस्थितैरिदमङ्गीकृतमिति ॥ १६ ॥ तेषां च ग्रन्थरचनां प्रति शुभध्यायिनां कर्मद्वारेण योऽवस्थाविशेषस्तं दर्शयितुकामो नियुक्तिकृदाह१ समयेन प्र० । २ समयत्वेनेति पाठे योगसमुच्चयाय अन्यथा खसमयसमुच्चयः,शुभच्यानसमुच्चयोऽप्युभयत्र । ३ रिदमझीकृत इति प्र० ।
20203030828800008092002020
Jain Education HEX
For Personal & Private Use Only
nelibrary.org