________________
| 'आरम्भस्य' सावद्यानुष्ठानरूपस्य 'अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुनवं भवन्ति ते अकृतधर्माः मरणे दुःखेर वा समुत्थिते आत्मानं शोचन्ति, णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणोति ममेदमहमस्य स्वामीत्येवमध्यवसायिनः शोचन्ति, शोचमाना अप्येते 'निजम्' आत्मीयं परि-समन्तात् गृह्यते-आत्मसाक्रियत इति परिग्रहः-हिर-18 ण्यादिरिष्टस्वजनादिर्वा तं नष्टं मृतं वा 'न लभन्ते' न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमेनमा
गत्य 'खजना मातापित्रादयः शोचन्ति 'ममत्वयुक्ताः' स्नेहालवः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमिति, &॥ ९॥ अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति “सोऊण तयं उवडियं, केइ गिही विग्घेण उहिया। धम्ममि अणुत्तरे मुणी, तंपि जिणिज्ज इमेण पंडिए॥१॥" एतदेवाह-'इह' असिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति विउत्ति विद्याःजानीहि, तथाहि-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थ दुःखभाजनम् ॥१॥' तथाहि| 'रेवापयः किसलयानि च सल्लकीनां, विन्ध्योपकण्ठविपिनं स्वकुलं च हिखा । किं ताम्यसि द्विप! गतोऽसि वशं करिण्याः, स्नेहो निबन्धनमनर्थपरम्परायाः॥१॥ परलोके च हिरण्यखजनादिममखापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदु-1 पादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि 'विध्वंसनधर्म विशरारुस्वभावं, गवरमित्यर्थः, इत्येवं 'विद्वान्' जानन् का सकर्णः 'अगारवास' गृहवासमावसेत् ?, गृहपाशं वाऽनुबनीयादिति, उक्तं च-"दाराः परिभवकारा बन्धुजनो बन्धन विषं विषयाः । कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशा ॥१॥"१०॥ पुनरप्युपदेशमधिकृत्याह
१ त्रिपदबहुव्रीहिरत्र, अनूसमासान्तश्च द्विपदादेव । २ श्रुखा तमुपस्थित केचिद्गृहिणो विनायोत्तिष्ठेयुः । धर्मेऽनुत्तरे मुनिस्तानपि जयेदनेन पण्डितः ॥
यं जनस माहवासमावसेत् ., गृहविध्वंसनधर्म वातकर्मजं दुःखं भ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org