________________
क्रियतां पर्षदाऽप्यभिहितम् - एवमस्तु ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितं, घोषितं च डिण्डिमेन नगरे, यथा-यः कश्चिदिह धार्मिकः स सर्वोऽपि धवलप्रासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव प्रविष्टो निर्गच्छंथ कथं त्वं धार्मिकः १ इत्येवं पृष्टः कश्चिदाचष्टे - यथाऽहं कर्षकः अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्वाह - यथाऽहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचखानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति - यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्त्विदमाह-यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिकं कुटुम्बकं पालयाम्येव, तावत् श्वपाकोऽपीदमाह - यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मनि श्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति, इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टं तच्च किमधर्माचरणं भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत्, तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीतप्रतिज्ञा निर्वाहणसमर्थाः अस्माभिस्तु – 'अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । कृखा निवृत्तिं द्यस्य, सम्यक् साऽपि न पालिता ॥ १ ॥ अनेन व्रतभङ्गेन, मन्यमाना अधार्मिकम् । अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः ॥ २ ॥' तथाहि - 'लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्त्तमानाः । तेजखिनः सुखमसुनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥ ३ ॥ वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि भनं चिरसंचितव्रतम् । वरं हि मृत्युः सुविशुद्धचेतैसो, नचापि शीलस्खलितस्य जीवितम् ॥ ४ ॥” इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृत्वा १ आधारस्यापि कर्मत्वविवक्षया, गत्यर्थत्वेन विशः कर्तरि क इति न प्रथमाशङ्का । २ जातिपक्षीया मविपुलेयम् । ३ कर्मणो । प्र०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org