SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 'समेति समभावोपेतः सामायिकादौ संयमे संयमस्थाने वा पट्स्थानपतितखात् संयमस्थानानामन्यतरसिन् संयमस्थाने छेदोपस्थापनीयादौ वा, तदेव विशिनष्टि-सम्यक्शुद्धे सम्यकशुद्धो वा 'श्रमणः' तपस्वी लज्जामदपरित्यागेन समानमना वा 'परिव्रजेत्' संयमोद्युक्तो भवेत् , स्यात्-कियन्तं कालम् ?, यावत् कथा-देवदत्तो यज्ञदत्त इति कथां यावत् , सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा-शोभनाध्यवसायेन युक्तः, द्रव्यभूतो-रागद्वेषादिरहितः मुक्तिगमनयोग्यतया वा भव्यः, स एवम्भूतः कालमकार्षीत् 'पण्डितः' सदसद्विवेककलितः, एतदुक्तं भवति–देवदत्त इति कथा मृतस्यापि भवति अतो 18| यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् ॥ ४ ॥ किमालम्ब्यैतद्विधेयमिति, उच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा। पुढे परुसेहिँ माहणे, अवि हण्णू समयंमि रीयइ॥५॥ पिण्णसमत्ते सया जए, समताधम्ममुदाहरे मुणी।सुहुमे उसयाअलूसए,णो कुज्झे णो माणि माहणे॥६॥ | दूरवर्तिवात् दूरो-मोक्षस्तमनु-पश्चात् तं दृष्ट्वा यदिवा दूरमिति दीर्घकालम् 'अनुदृश्य' पर्यालोच्य 'मुनिः' कालत्रयवेत्ता , ४ दरमेव दर्शयति-अतीतं 'धर्म' स्वभावं-जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म-स्वभावं पर्यालोच्य लज्जामदौ न विधेयौ, तथा 'स्पृष्टा छुप्तः 'परुषैः' दण्डकशादिभिर्वाग्भिर्वा 'माहणेत्ति मुनिः 'अवि हण्णू'त्ति अपि मार्यमाणः १ समयाहियासए पा० । २ पण्हसमत्थे पा० 90000000000SceredOOOOODece eeeeeeeeeeeeeeeeeee Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy