________________
सूत्रकृताङ्ग शीलाङ्काचार्ययवृतियुतं
॥ ६१ ॥
भ्रमति 'महदू' अत्यर्थं महान्तं वा कालं, कचित् 'चिरम्' इति पाठः, 'अदु'त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थखात् 'पापिकैव' दोषवत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह जन्मनि सुधरो दृष्टान्तः, परलोकेऽपि पुरोहितस्यापि श्रादिपूत्पत्तिरिति, इत्येवं 'संख्याय' परनिन्दां दोषवतीं ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपस्वी भवांस्तु मत्तो हीन इति न माद्यति ॥ २ ॥ मदाभावे च यद्विधेयं तद्दर्शयितुमाह
जे यावि अणायगे सिया, जेविय पेसगपेसए सिया । जे मोणपयं उवट्टिए, णो लज्जे समयं सया यरे ॥३॥ सम अन्नयरम्मि संजमे, संसुद्धे समणे परिवए । जे आवकहा समाहिए, दविए कालमकासि पंडिए ॥४॥
यश्चापि कश्चिदास्तां तावत् अन्यो न विद्यते नायकोऽस्येत्यनायकः - स्वयंप्रभुचक्रवर्त्यादिः 'स्यात्' भवेत्, यश्चापि प्रेष्यस्यापि प्रेष्यः - तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते गम्यते मोक्षो येन तत्पदं - संयमस्तम् उप- सामीप्येन स्थितः उपस्थितः - समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वाः क्रियाः - परस्परतो वन्दन प्रतिवन्दनादिका विधत्ते, इदमुक्तं भवति - चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेण चोत्कर्ष इत्येवं 'समता' समभावं सदा भिक्षुश्चरेत् संयमोद्युक्तो भवेदिति ॥ ३ ॥ क पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह
१ सिअ वृत्तिः ।
Jain Education International
For Personal & Private Use Only
२ वैताली
याध्य०
उद्देशः २
॥ ६१ ॥
www.jainelibrary.org